Book Title: Jalpmanjari
Author(s): Pungav Prachya Muni, Lalitvijay
Publisher: Atmanand Sabha

View full book text
Previous | Next

Page 3
________________ श्रीरप ॥ श्री जल्पमञ्जरी ॥ वसुधानन्दनरूपं, वसुधानन्दननखत्विषं नत्वा । वसुधानन्दनगणभृन्नतक्रमं वर्द्धमानजिनम् ॥ १ ॥ सुधानन्दनसूरीन्द्र - पादपद्मप्रसादतः । मुग्धबोधाय मुग्धोऽपि कुर्वेऽहं जल्पमअरीम् ॥२॥ युग्मम् ॥ सकखमामाणिकमाणिमतीतस्फीतमहीरुहजातिख्यातिमद्धरिचन्दनायमानाः, सरससुकोमल सुशीतलताद्य नणुगुणग्रामरामैणीयकरमा घाम सर्वजनाप्यायकसुवचनरचनाहरिचन्दनायमानाः । मानातीतगुणग्रामाः । समागम्यतां, आगम्य तामरसमिवामरसमानरूपाः सहस्रपादैरिव स्वपादैरिदमासनमलयितां, क्रियतामनुग्रहः स्वविग्रहेण । अद्यास्माकं निरर्गलानि भाग्यानि जागरितानि तानि यतो युष्माशा मादृशानां सदनं सदनङ्गरूपा अकूपारा इव गुणगणानां प्राप्नुः । यत उक्तं, “साधूनां दर्शनं श्रेष्ठं तीर्थभूता हि साधवः । तीर्थं फलति कालेन सद्यः साधुसमागमः ॥ १ ॥ " यतः उत्तमान के के गुणा वर्ण्यन्ते ? मञ्जरी ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22