Book Title: Jalpmanjari
Author(s): Pungav Prachya Muni, Lalitvijay
Publisher: Atmanand Sabha

View full book text
Previous | Next

Page 8
________________ मञ्चरी॥ भीजप- || सपक्षे अन्यनित्यपदार्थे विपक्षे चानित्ये घटपटादौ वर्तते अतोऽनैकान्तिकः पक्षप्रयवृचिरनकान्तिक इति पचनावः। यत्र देवा- वुपन्यस्ते साध्यधर्मप्रत्यक्षेणानुमानेन आगमेन बाधितो भवति स हेतुः कालात्ययापदिष्ट उच्यते । प्रत्यक्षबाधितो यथा शीतो वहिर्दाहकत्वात् , अत्र बहवः प्रत्यक्षेण वढेरुष्णत्वमेव प्रतीयन्ति न शीतत्वमिति प्रत्यक्षबाधितः । अनुमानवाधितो.यथा नास्ति सर्वज्ञः प्रमाणपञ्चकाग्राह्यत्वाम् इति अत्रैव प्रत्यनुमान-अस्ति सर्वज्ञः अविसंवादिचन्द्रग्रहणादिज्योति शास्त्रनिर्माणानुपपवेरिति । आगमबाधितो यथा ब्राह्मणेन मुरा पेया द्रवत्वात् जलवदिति, आगमे ब्राह्मणानां सुरापानं निषिद्ध इति आगमबाधितः । ४ । यो हेतुः स्वपक्षस्य स्वाश्रयस्य साध्यधर्मविशिष्टस्य साधने परपक्षस्य विपक्षस्य दुष्टसाध्यरहितस्य साधनेऽपि तथैव त्रिरूपः प्रकरणसम उच्यते, प्रकरणपक्षे विपक्षे च तुल्य इत्यर्थः । यथा अनित्यः शन्दो नित्यधर्मानुपलब्धः घटवदिति, नित्यः शम्दो:नित्यधर्मानुपलब्धेः आकाशवदिति । अत्र नोदको वदति, प्रत्यनुमानसद्भावात् कालात्ययापदिष्टोऽयं हेतुरिति चेत्-कालात्ययापदिष्टे प्रत्यनुमानकरणे. रेख न्तरं, अत्र तु प्रकरणसमे स एव हेतुः शब्दघटनया इति भेदः इति पञ्चहेत्वाभासाः । एतेषां भेदाः ग्रन्थविस्तरभयानदर्शिताः इति पञ्चहेत्वाभासस्वरूपम् १३ ।। छलं त्रिधा वाक्छल १ सामान्यच्छलं २ उपचारच्छलं ३ । वाक्छलं यथा-नव कम्बलाः संभवन्ति, दरिदस्यास्यैकस्यापि कम्बलस्यासंभवात् इति वाक्छलं १ सामान्यच्छलं यथा-ब्राह्मणे विद्याचरणसंपदिति वादिना प्रतिपादिते प्रतिवादी पक्ति, वात्ये संस्कारवर्जिते क्रियारहितेऽपि ब्राह्मणे सा भविष्यति, व्रात्योऽपि ब्राह्मण एवेति सामान्यच्छलं.२. उपचारच्यावं यथा

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22