Book Title: Jalpmanjari Author(s): Pungav Prachya Muni, Lalitvijay Publisher: Atmanand Sabha View full book textPage 6
________________ | सत्र तावद् बौद्धमते, बुद्धो देवता, द्वे प्रमाणे, प्रत्यक्षं अनुमानं च । तत्रायं घटः अयं पट इत्यादिकल्पनानामसझारहितं श्रीजल्पइन्द्रिय पदार्थसंयोगोत्पनं निश्रयरूपं अभ्रान्तं प्रत्यक्षं पक्षधर्मत्वं स्वाश्रयमध्यवर्त्तमानत्वं १ सपक्षसत्वं स्वाश्रयसमानधर्मे पदा11811 |र्थेऽपि वर्त्तमानत्वं २ विपक्षासत्व स्वाश्रयविपरीतवस्तुमध्याऽवर्त्तमानत्वं ३ इति रूपत्रययुक्ताल्लिङ्गाल्लिङ्गिनः पदार्थस्य ज्ञानमनुमानं २. या पर्वतोऽयं वह्निमान् धूमवत्त्वात् । अत्र पर्वतः पक्षः धूमवच्वं हेतुः, स च पक्षे स्वाश्रये पर्वते वर्त्तते इति पक्षधर्मत्वं १ सपक्षे महानसादो वर्त्तत इतेि सपक्षसच्च २ विपक्षे जलाशयादौ नास्तीति विपक्षासत्वं ३ इति हेतोस्त्रीणि रूपाणि इत्यनुमानं २ सर्ववस्तु अनित्यं क्षणक्षा स्थूलपदार्थ निराकरण, केवलाः परमाणव एव तत्त्वं इति बौद्धमतसङ्क्षेपः ॥ १ ॥ नैयायिकम ईश्वरो देवता सर्वव्यापी सर्वज्ञो जगत्कर्त्ता नित्यश्च । प्रमाण- प्रमेयं-संशय-प्रयोजन- दृष्टान्त-सिद्धान्तअवयव - तर्क- निर्णय-वाद- जल्पवितण्डा - हेत्वाभास-छ- जोति-निग्रहस्थानानि, इति षोडश तत्वानि । तत्रार्थोपलब्धिहेतुः प्रमार्ण, अर्थस्य-पदार्थस्य योपलब्धिर्ज्ञानं तस्य यन्मुख्यं कारणं तत्प्रमाणं । तच्चतुः प्रकार, प्रत्यक्षं १ अनुमानं २ उपमानं ३ मागमः ४ । तत्रेन्द्रियपदार्थसंयोगोत्पन्नं व्यवसायरूपं अव्यभिचारि ज्ञानं प्रत्यक्षं । अनुमानं प्रागुक्तस्वरूपं । उपमानं प्रतीतमेव । - श्रीरामः सिद्धान्तः । १ । प्रमेयं प्रमाणग्राह्यपदार्थों घटपटादिः । २ । संशय-प्रयोजन- दृष्टान्त-सिद्धान्ताः प्रतीताः । अवयवाः पञ्चानुमानप्रमाणस्य । ते च यथा-प्रतिज्ञा- हेतु दृष्टान्त - उपनय-निगमाः । साध्यधर्मविशिष्टो धर्मी पक्षः, साध्यविशिष्टः साध्ययुक्तः पक्षः प्रतिज्ञा, यथा पर्वतोऽयं वह्निमान् नास्ति सर्वज्ञः शीतो वह्निः इत्यादि प्रतिज्ञा १ धूमवत्त्वादिति हेतुः २ यो यो धूमवान् स स वहिमानिति व्याप्तिः, यथा महानसं इति दृष्टान्तः ३ धूमवांश्चायं इति उपनयः ४ हेतोः साध्यविशिष्टे धर्मिणि पक्षे मञ्जरी ॥ ॥ ४ ॥Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22