Book Title: Jalpmanjari
Author(s): Pungav Prachya Muni, Lalitvijay
Publisher: Atmanand Sabha
View full book text
________________
मञ्चरी॥
कत्वात् अनित्यशब्दस्तहि अर्थादापद्यते निरवयत्वादाकाशसाघानित्योऽपि १७ अविशेषेण प्रत्यवस्थान अविशेषसमा जातिः, श्रीजल्प- यथा यदि कृतकत्वैकगुणेन शब्दघटयोरेकत्वादनित्यत्वमिष्यते तदा सर्वेषां भावानामविशेषेणैकैकेन गुणेन सादृश्य, एवंच प्रमे
। यत्वगुणेन घंटाकाशयोः साम्यं, घटो नित्यः स्यादाकाशं वा अनित्यं स्यादिति १८ उपपश्या प्रत्यवस्थानं उपपचिसमा जातिः, यया यदि कतकत्वस्योपपत्या शब्दस्यानित्यत्वं तथा(तदा)निरवयत्वोपपच्या नित्यत्वमपि १९ उपलया प्रत्यवस्थानं उपलब्धिसमा जाति, यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वान्न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वसाधनं येन विनासाध्यं नोपलभ्यते उपलभ्यते च प्रयत्नानन्तरयिकत्वं विनापि विधुदादीनामनित्यत्वं २० अनुपलब्ध्या प्रत्यवस्थानं अनुपलब्धिसमा जातिः, यथाऽत्रैव प्रयत्नानन्तरीयकलहेतो षक्ति न प्रयत्नकार्यशब्दः प्रागुच्चारणादस्त्येव विकरणयोगात्तु नोपलभ्यते २१ नित्यानित्यत्वविकल्पेन प्रत्यवस्थान नित्यसमा जातिः, यथा अनित्यः शब्दः इति पक्षे प्रतिवादी वदति, येयमनित्यता शब्दस्योच्यते, सा नित्या अनित्या वा स्यात् ? अनित्या चेत्तदा तस्या अपगमे शब्दो नित्य एव, नित्या चेत्तदापि तद्धर्मित्वाचदिव शब्दोऽपि नित्य एव २२ सर्वमावानामनित्यत्वोद्भावनेन+ प्रत्युवस्यानमनित्यसमा जातिः, यथा घटसाधाऽनित्यत्वेन यदि शब्दस्यानित्यत्वं तदा सर्वभावानामस्त्येव किमपि घटसाधर्म्य प्रमेयत्वादिना इति सर्वेऽप्यनित्या एव, अथ ते नानित्यास्तदा शब्दोऽपि मा भवतु २३ प्रयत्नकार्येण तत्वोपन्यासेन प्रत्यवस्था कार्यसमा जातिः, यथा प्रयत्नस्य द्वैरूप्यं किश्चिदसदेव जायते घटादिकं, किश्चिदावरणव्युदासादिनाभिव्य॑ज्यते, ततः प्रयत्नेन शब्दो जन्यतेऽभिव्यज्यते वा इति संशयापादनेन कार्यसमा जाति: २४ इति जातयो दूषणामासाः ॥ १५ ॥
युक्त्या। + भनित्यत्वप्रकटीकरयोन ।
॥९
॥

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22