Book Title: Jalpmanjari
Author(s): Pungav Prachya Muni, Lalitvijay
Publisher: Atmanand Sabha

View full book text
Previous | Next

Page 18
________________ श्रीजल्प॥ १६ ॥ र्कतूलाः, स्वबुद्धिबेडाबळावगाहन पूर्वप्राप्तचतुर्दशहृद्यविद्यामहानदीकूलाः, अनन्यजनसामान्यसौजन्याद्यनणुगुणगणसर्वजनानुकूलाः, मया विधीयमानमनुमानं सावधानीभूय समाकर्ण्यतां सकर्णाः । यया शीतो वह्निर्दाहकत्वात्, यद्यद् दाहकं तचत् शीतं यथा हिम, दाहक वह्निस्तस्मात् शीत एव इति पञ्चावयमनुमानं ॥ I मत्र कण्टकोद्धारमकारर । नत्वयं हेतुरसिद्धताबन्धकीसम्बधनिबन्धनलब्धापवादः पक्षधर्मतालक्षणसलक्षणपक्षलक्ष्मीकिसीकरणात् यो हेतुः पक्षे न वर्त्तते सोऽसिद्ध इति वचनात् । नाप्ययं हेतुः फलितक्षेत्राभोगवत् विरुद्धत्वं पत्ते, विपक्षापक्षपातसपक्षकक्षिप्रवेशप्रगुणगुणयुगलगोफणगुणोल्लालितयुक्तिकल्लोळ गोलकदुरा कलनीयत्वात् । यो हेतुः पक्षे स्वाश्रये सपक्षे स्वाभयसदृशपदार्थो न वर्त्तते विपक्षे वर्त्तते स विरुद्ध इति वचनात् । न च व्यभिचारनिशाचरसञ्चारदुः सञ्चरोऽयं हेतुः, विपक्षाहचिहृतिशिखाबन्धबन्धुरत्वात् । यो हेतुः पक्षत्रये वर्त्तते सोऽनेकान्तिकः । नाप्यसो हेतुः कालात्ययापदिष्टतादुष्टतादृग्भुजङ्गीदष्टः ।।पविरुद्धसाध्यधर्मतागारुडमणिप्रणीतापचारत्वात् । नापि प्रकरणसमताभय किंवदन्तीकान्दिशीकोऽयं हेतुः, प्रशमिताशेषप्रत्यनुमानप्रत्यनीकत्वात् । तस्मादस्माकमस्माच्चिन्तामणेरिव निर्दूषणात्साधनात्संपनीपद्यते समीहिता साध्यसिद्धिः । इति हेतुगोदारमकारः । इति पूर्वपक्षों वादिना कृतः । tureरपक्षे प्रतिवादी वदति, ननु प्रामाणिकप्राणिश्रेणिवेणीमल्लीबल्ली मसूनानूननूतनपूतमुकुटायमानाः, कूटायमाना नामात्रगुणगुणगणानों, महेशाविशारदानां, शारदादचमसादाः, निरवग्रहपविद्यामसादाः, यत्तावद्भवद्भिः शुभवद्भिः वः शीतस्वसाधनाय दाहकत्वादित्ययं हेतुरुपन्यस्त आस्ते स कालात्ययापदिष्टदोषनिःशू कदन्दशूकदष्टत्वादिष्टसाध्यसाधनाय कथं मञ्जरी ॥ ।। १६ ।।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22