Book Title: Jalpmanjari
Author(s): Pungav Prachya Muni, Lalitvijay
Publisher: Atmanand Sabha

View full book text
Previous | Next

Page 10
________________ श्रीजल्प ॥ ८ ॥ कत्वात्, किञ्चित् कृतकं वस्तु मृदु किञ्चित्कर्कशं, तथा किश्चिद्वस्तु नित्यं शब्दादिकं किञ्चिद् घटपटादिकमनित्यमित्यपि भविष्यति इति विकल्पसमा जातिः ७ साध्यसाम्यापादनेन साध्यसमा जातिः, यथा यादृशो घटस्तादृशः शब्दस्तर्हि शब्दसाध्यं तद्वद् घटोऽपि साध्यो भवेत् ८ माध्यमाप्तिविकल्पाभ्यां प्रत्यवस्थानं प्राप्त्यप्राप्ती जाती । यथा कृतकत्वहेतुः साघनं साधनं प्राप्याप्राप्य वा साधयति, प्राप्य चेत् द्वयोः साध्यसाधनयोर्विद्यमानयोरेव प्राप्तिर्न सदसतोः, द्वयोश्च साध्यसाधनयोः सत्वे सव्येतरगोविषाणयोरिव न साध्यत्वं साधनत्वं च, अप्राप्येतु साधनत्वमयुक्तं अतिप्रसङ्गात् इति प्रात्यप्राप्तिसमे जाती ९--१० अतिमसङ्गापादनेन प्रसङ्गसमा जातिः, यथा यद्यनित्यत्वे कृतकत्वं तदा कृतकत्वे किं साधनं १ तत्रापि किमिति ११ प्रतिदृष्टान्ते | तत्मतिकूलदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः, यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् घटवदिति उक्ते, जातिवादी वदति, यथा घटः प्रयत्नानन्तरीयकोऽनित्यो दृष्टः । एवं प्रतिदृष्टान्तरूपं आकाशं नित्यमपि प्रयत्नानन्तरीयकं दृष्टं कूपखननादिमयत्नानन्तरमुपलम्भात् १२ अनुत्पच्या प्रत्यवस्थानं अनुत्पत्तिसमा जातिः, यथानुत्पन्ने शब्दाख्ये धर्मिणि कृतकत्वं धर्मः वर्त्तते ? इति १३ साधर्म्यसमा वैधर्म्यसमा च या जातिः, किं घटः साधर्म्यात् कृतकत्वादनित्य उत तद्वैधर्म्यात् आकाशसाधर्म्याभिरवयवत्वान्नित्य इति ? १४ प्रकरणात्प्रत्यनुमानात् जाता प्रकरणसमा जातिः, यथा अनित्यः शब्दः कृतकत्वात्, अत्र प्रयोगे नित्यः शब्दः श्रावणत्वात् १५ हेतो काल्यानुपपच्या हेतुसमा जातिः, यथा हेतुः साध्यात्पूर्वं पश्चात्सह वा भवेत् पूर्व बद ?- इति साध्ये तत्साधनं कस्य स्यात् ? पश्चाच्चेत् ब्रूहि, साध्यं पूर्व सिद्धं किं साघनेन हेतुना ? युगपचेत् तदा सव्येतरगोविपाणयोरिव तयोः साध्यसाधनभावो न भवेत् १६ अर्थापत्याप्रत्यवस्थानं अर्थापत्तिसमा, यथा यद्यनित्यघटादिसाधर्म्यात् कृत मञ्जरी । 112 11

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22