Book Title: Heershreeji Sadhviji Maharaj Author(s): Nava Upashray Sangh Publisher: Nava Upashray Sangh View full book textPage 3
________________ गुरुभक्ति प्रणिधानाष्टकम् । "याऽप्रमत्ता सदा साधु-साधाचारविभूषिता । यां द्रष्टुमीहतेऽद्यापि, मनोऽस्माकमतृप्तिगम् ॥१॥ यया कृताः कृतार्थाः स्मः, सर्वदा गुणपोषतः । यस्या ऋणं महन्नित्यं, धार्यते स्माऽस्मदादिभिः ॥२॥ यस्या विनिर्गताः काम-क्रोधाद्या आन्तरा द्विषः । यस्याः कीर्तिर्यशश्चारु, भासते गगनाङ्गणे ॥३॥ यस्यां स्थितं मनोऽस्माकं, नान्यत्र लभते रतिम् । मङ्गलनामधेया सा, गुरुर्नोऽवतु हीरश्रीः ॥ ४ ॥ ताम् भजामः सदा प्रीता-मनन्यवत्सलां गुरुम् । तयाऽऽशीर्वादिता नित्यं, सर्वत्र शममाप्नुमः ॥ ५॥ तस्यै नमः सदानन्ददायिन्यै भन्यप्राणिनाम् । तस्या विनिर्गता सद्वाग, हृदि स्थैयं करोतु नः ॥६॥ तस्याश्चरणसेवायाः, प्राप्तिमाशास्महे वयम् । तस्यां पुण्य पवित्राया-मात्मस्नानं भवेच्च नः ॥७॥ इति स्तुते गुरो ! दद्याः, सद्भक्तिं जिनशासने । यया नित्यं वयं हीर-श्रियोऽवियोगमाप्नुमः ॥८॥" “एवं स्तुता चरणधर्मददा वदान्या, शिष्यादिनाऽऽश्रितजनेन परप्रमोदात् । स्वर्गऽपि सा स्थितवती शरणप्रदात्री सर्वस्य हीरगुरुरस्तु शुभं विधात्री ॥९॥" મુદ્રક : જીવણલાલ પુરુષોત્તમદાસ પટેલ : શ્રી ઉત્કૃષ્ટ મુદ્રણાલય ગાંધીરોડ, પુલ નીચે–અમદાવાદ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 52