________________
ये किलापोहशक्तिं सुगतसूनवो, जातिशक्तिं च मीमांसका ये । संगिरते गिरं ते यदीयां नयद्वैतपूतां प्रसह्य श्रयन्ते || श्री विजय ० ३ ॥
कारणं प्रकृतिरङ्गीकृता कापिले:
कापि नेवाऽऽत्मनः काऽपि शक्तिः ।
बन्धमोक्षव्यवस्था तदा दुर्घटे
त्यत्र जागर्ति यत्प्रौढ 'शक्ति: || श्री विजय ० ४ ||
शाब्दिकाः स्फोटसंसाधने तत्परा
ब्रह्मसिद्धौ च वेदान्तनिष्टाः ।
सम्मतिप्रोक्तसंग्रहरहस्यान्तरे
यस्य वाचा जितास्ते निविष्ठाः ॥ श्री विजय० ५ ॥
श्रीव्यमुत्पत्तिविध्वंसकिमीरितं
द्रव्यपर्यायपरिणति विशुद्धम् ।
विस्रसायोगसङ्घातभेदाहितं
स्वसमयस्थापितं येन बुद्धम् || श्री विजय० ६ ||
इति नुतः श्रीविजयप्रभो भक्ति - स्तर्कयुक्त्या मया गच्छनेता । श्रीयशोविजयसम्पत्कर कृतधिया
मस्तु विघ्नापहः शत्रुता || श्री विजय० ७ || समाप्तमिदं श्री विजयप्रभसूरेः स्वाध्यायम् ॥
१. ' - ढयुक्ति प्रत्यन्तरे ।' २ 'शत्रुनेता' प्रत्यन्तरे श्री विजयप्रभसूरे: स्वाध्यायाम्
Jain Education International 2010_02
For Private & Personal Use Only
૪૬૫
www.jainelibrary.org