Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 31
________________ ३ द्रौपदीखयंवरम् । दुष्करं करणं कुर्वन्नुवर्वीपालात्प्रसेदुषः । भवानेव सखे ! जिष्णुर्लक्ष्मी सम्प्राप्स्यति क्षणात् ॥ ३ ॥ पारिपार्श्वक:-( सहर्ष ) (क) इमिणा अजस्स वयणेण निचिंतो दाणिं संवुत्त म्हि । ताव पढमं मं पत्थुदरूवयनामनिवेयणेण पसीददु अजो। सूत्रधारः-अस्त्येव श्रीकविराजात्मजमहाकविसिद्धपालस्य सूनुना महाकविना विजयपालेन निबद्धं द्रौपदीस्वयंवराभिधानं वीराद्भुतरसप्रधानं नाटकम् । ( नेपथ्ये ध्रुवा गीयते ) (ख) उम्मायकरो मुअणे जयइ विडू जस्स संनिहाणेण । दुल्लक्खं पि हु भिंदइ लीलाए जणमणं मयणो ॥ ४ ॥ सूत्रधारः-(आकर्ण्य) साधु प्रक्रान्तं भरतविद्याभिनयकुशेशयपरिशीलनशीलालिभिः शैलालिभिः। यदनया रजनिजानिवर्णनपरया ध्रुवया राधावेधसमुद्यतधनञ्जयसाहाय्यककृताभियोगस्य मदगर्जदतिदुर्जयदुर्जनजनदलननिपुणमायाप्रयोगस्य तत्रभवतः कैटभारेः प्रवेशः सूचितः । तदेहि आवामप्यनन्तरकरणीयाय सज्जीभवावः । (इति निष्क्रान्तौ।) ॥ आमुखम् ॥ ------ - । (क) अनेन आर्यस्य वचनेन निश्चिन्त इदानीं संवृत्तोऽस्मि । तावत्प्रथमं मां प्रस्तुतरूपकनामनिवेदनेन प्रसीदतु आर्यः । (ख) उन्मादकरो भुवने जयति विधुर्यस्य सन्निधानेन । दुर्लक्ष्यमपि खलु भिनत्ति लीलया जनमनो मदनः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52