Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 35
________________ नहि, द्रौपदीखयंवरम् । कर्णः-( द्विजरूपधारिणं भीमसेनमवलोक्य स्वगतं ) आकारवेषौ परस्परं विसंवादमासादयतः । भवतु । किमेतया चिन्तया । ( प्रकाशं पुरोहितं प्रति ) अयि पुरोहित ! पृच्छ वाञ्छितममुष्य द्विजस्य । पुरोहितः-( द्विजं प्रति ) किं वित्तप्रयुतस्पृहा ? द्विजः नहि, पुरोहितः रुचिमुक्तासु किं ते ? द्विजःपुरोहितः-स्वर्णानीह किमीहसे ? द्विजः नहि, पुरोहितः मणीन्किं कासे त्वं ? द्विजः नहि। पुरोहितः-गोलक्षं किमु लिप्ससे ? द्विजः नहि, पुरोहितः तवाश्वीये किमाशा ? द्विजः नहि, पु०-वातं वाञ्छसि दन्तिनां किमु ? द्विजः नहि, क्ष्मां याचसे किं? - . द्विजः नहि ॥ कर्ण:-अयि पुरोहित ! प्रतीक्षख क्षणम् । स्वयमेवाहममुष्य मनोरथमवगमिष्यामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52