Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 41
________________ द्रौपदीखयंवरम् । द्रोण:-( पुरोऽवलोक्य तिमिरतिरस्करिणीतिरस्कृतलोचनालोकः प्रतिनित्य दुर्योधनं प्रति । ) कृष्णक्षपा समुदगात्किमभूदकाण्डे किं दुर्दिनं किमभवन्मम सन्निपातः । किं स्वापमापमगमं किमु नागवेश्म किं गर्भवासमविशं नहि वेनि किञ्चित् ॥ २६ ॥ ( दुर्योधनः-गाङ्गेयसम्मुखमुदीक्षते । ) गाङ्गेयःमुक्तिक्रीडाकरमकरवं यत्नतो ब्रह्मचर्य तन्मे कृत्यं रतिरमयितुर्मायया जायया किम् । नारीपाणिग्रहणपणितामेवमेवापि भिन्दन् राधामेनां कुलगुरुरहं लज्जया रुद्ध एषः ॥ २७ ॥ दुर्योधनः-अयि चम्पाघिराज ! चापारोपणचापलमाचरन् विस्त्रय राधायन्त्रम् । कर्णः- ( स्वभुजौ निर्वर्ण्य ) शेषभोगसमाभोगमद्भुजस्तम्भपीडनम् । क्षमिष्यते गुणारोपमात्रमप्यत्र नो धनुः ॥ २८ ॥ अपि च--अखिलतरुकुञ्जभञ्जन ! कुरुराज ! वितर वितर मम सत्वरतरमादेशम् । मनातु किं रविरथध्वजमिन्दुलक्ष्म किं तक्षतु, क्षिपतु किं मुकुटं मघोनः । राधां यथाविधि विभिद्य ममाद्य बाणः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52