Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 42
________________ विजयपाल-विरचितं - किं दुष्करान्तरमपि प्रसभं करोतु ॥ २९॥ दुर्योधनः-किमसम्भाव्यमस्मदीयबान्धवभुजबलस्य । परं स म्प्रति प्रस्तुतमेव प्रस्तूयताम् । ( कर्णस्तदभिमुखमुपसर्पति । ) ( कृष्णः-अन्तराले मायामयमर्जुनद्रौपदीविवाहं दर्शयति। ) कर्णः-( विलोक्य सविस्मयमपसृत्य । ) इहोद्वहति पार्थोऽयं कृतार्थो द्रुपदात्मजाम् । तन्मे कृष्णावध्वा राधामुच्छिष्टां च भिनत्ति कः ॥३० । दुर्योधनः-भवन्तु, अमी। वयं स्वयमेव याज्ञसेनीपाणिपीडनम तिभुवं धनुर्दण्डमारोपयिष्यामः । ( इत्युत्थाय तथाकुर्वन्करद्वयकम्पा भिनयति ।) कृष्णः -( विलोक्य ) करकम्पोऽभवद्भीतिजातः स्वेदजलाकुलः । न करः कुरुराजस्य धनुर्धर्तुमपि क्षमः ॥ ३१ ॥ ( निरवशेषदर्शितनिजबलोऽपि धनुर्दण्डसारमसहमानो दुर्योधनः क्षितित निपतति।) ( कृष्णः सानन्दं स्मयते।) ( सकलमपि राजचक्रं मुक्तप्रत्याशं विलक्षमधोमुखमीक्षते । ) कृष्णः नारोपि चापं मनुराजपुत्रै नारोपि चापं दनुनन्दनैश्च ॥ ३२ ॥ शिशुपाल:-( सकोपाटोपं ललाटतटघटित भ्रकुटीविटङ्कः ।) रेरे गोकुलवीर ! कीर इव किं यत्किञ्चिदाभाषसे यन्नारोपि नरेश्वरैस्तदिह किं नारोपि दैत्यैरपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52