________________
विजयपाल-विरचितं
- किं दुष्करान्तरमपि प्रसभं करोतु ॥ २९॥
दुर्योधनः-किमसम्भाव्यमस्मदीयबान्धवभुजबलस्य । परं स म्प्रति प्रस्तुतमेव प्रस्तूयताम् ।
( कर्णस्तदभिमुखमुपसर्पति । ) ( कृष्णः-अन्तराले मायामयमर्जुनद्रौपदीविवाहं दर्शयति। ) कर्णः-( विलोक्य सविस्मयमपसृत्य । )
इहोद्वहति पार्थोऽयं कृतार्थो द्रुपदात्मजाम् ।
तन्मे कृष्णावध्वा राधामुच्छिष्टां च भिनत्ति कः ॥३० । दुर्योधनः-भवन्तु, अमी। वयं स्वयमेव याज्ञसेनीपाणिपीडनम तिभुवं धनुर्दण्डमारोपयिष्यामः । ( इत्युत्थाय तथाकुर्वन्करद्वयकम्पा भिनयति ।) कृष्णः -( विलोक्य )
करकम्पोऽभवद्भीतिजातः स्वेदजलाकुलः ।
न करः कुरुराजस्य धनुर्धर्तुमपि क्षमः ॥ ३१ ॥ ( निरवशेषदर्शितनिजबलोऽपि धनुर्दण्डसारमसहमानो दुर्योधनः क्षितित निपतति।)
( कृष्णः सानन्दं स्मयते।) ( सकलमपि राजचक्रं मुक्तप्रत्याशं विलक्षमधोमुखमीक्षते । ) कृष्णः
नारोपि चापं मनुराजपुत्रै
नारोपि चापं दनुनन्दनैश्च ॥ ३२ ॥ शिशुपाल:-( सकोपाटोपं ललाटतटघटित भ्रकुटीविटङ्कः ।) रेरे गोकुलवीर ! कीर इव किं यत्किञ्चिदाभाषसे यन्नारोपि नरेश्वरैस्तदिह किं नारोपि दैत्यैरपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org