________________
द्रौपदीखयंवरम् ।
द्रोण:-( पुरोऽवलोक्य तिमिरतिरस्करिणीतिरस्कृतलोचनालोकः प्रतिनित्य दुर्योधनं प्रति । ) कृष्णक्षपा समुदगात्किमभूदकाण्डे
किं दुर्दिनं किमभवन्मम सन्निपातः । किं स्वापमापमगमं किमु नागवेश्म किं गर्भवासमविशं नहि वेनि किञ्चित् ॥ २६ ॥
( दुर्योधनः-गाङ्गेयसम्मुखमुदीक्षते । ) गाङ्गेयःमुक्तिक्रीडाकरमकरवं यत्नतो ब्रह्मचर्य
तन्मे कृत्यं रतिरमयितुर्मायया जायया किम् । नारीपाणिग्रहणपणितामेवमेवापि भिन्दन्
राधामेनां कुलगुरुरहं लज्जया रुद्ध एषः ॥ २७ ॥ दुर्योधनः-अयि चम्पाघिराज ! चापारोपणचापलमाचरन् विस्त्रय राधायन्त्रम् । कर्णः- ( स्वभुजौ निर्वर्ण्य )
शेषभोगसमाभोगमद्भुजस्तम्भपीडनम् ।
क्षमिष्यते गुणारोपमात्रमप्यत्र नो धनुः ॥ २८ ॥ अपि च--अखिलतरुकुञ्जभञ्जन ! कुरुराज ! वितर वितर मम सत्वरतरमादेशम् । मनातु किं रविरथध्वजमिन्दुलक्ष्म
किं तक्षतु, क्षिपतु किं मुकुटं मघोनः । राधां यथाविधि विभिद्य ममाद्य बाणः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org