________________
१२
विजयपाल-विरचितं कामारिकार्मुकारोपगलितं निजदोर्बलम् । पतितोऽयमधोग्रीवो निरीक्षित इव क्षितौ ॥ २३ ॥ ..
( दुःशासन उत्थाय सलज्जमपकामति ।) दुर्योधनः-( मातुलकशकुनि प्रति । )
धूर्जटेर्धन्व सन्धाय चण्डिमातुलमातुल ! ।
राधावेधं विधेहि त्वं शकुने ! शकुनेरितः ।। २४ ॥ शकुनि:-( सावज्ञं ) किमस्मिन्नप्यर्थे शकुनालोकनेन ।
कृष्णः-( स्वगतं ) लीलयैवायं धनुरारोपयिष्यति । तद्भवतु । मायामाचरामि ।
[शकुनिः ] (यावद्धनुरारोपयति तावदन्तराले [कृष्णः ] वेतालमण्डलं विभीषिकायै प्रेषयति । )
शकुनिः-( उत्थाय यावद्धनुरादित्सति तावदन्तराले वेतालजालमवलोक्य सत्रासकम्पं । ) अहो ! कथमिदं धनुरारोप्यते । यतः
शिरालवाचालजटालकाल
करालजङ्घालफटालभालम् । उत्तालमुत्तालतमालकालं वेतालजालं स्खलयत्यलं माम् ॥ २५ ॥
( इति पश्चादपक्रामति । )
( दुर्योधनो द्रोणसम्मुखमवलोकयति । ) द्रोण:-( दुर्योधनं प्रति ) महाराज! किमस्माकमतिवयसामनया राधया कार्यम् । भवदर्थमेवायमुपक्रमः क्रियते।
(इत्युत्थाय धनुरभिमुखं धावति।) ( कृष्णः सहसा तदन्तराले मायामयमन्धकारमकुरयति ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org