________________
द्रौपदीवयंवरम् । स्तम्भः सोऽयं गिरिवि गुरुदक्षिणावर्तमेकं
वामावर्त विकटमितरच्चक्रमावर्त्ततेऽत्र । आस्ते लोलस्तदुपरि तिमिस्तस्य वामाक्षितारा___ लक्ष्यं प्रेक्ष्यं तदपि निपुणं तैलपूर्णे कटाहे ॥ १८ ॥ अपि चचापं पुरो दुरधिरोपमिदं पुरारे
रारोप्य यो भुजबलेन भिनत्ति राधाम् । . रूपान्तराभ्युपगता जगतां जयश्रीः
पञ्चालजा खलु भविष्यति तस्य पत्नी ॥ १९ ॥
( इत्यभिधाय दुर्योधनाभिमुखं मुखं दृशं च निधाय ) राजन्नेतौ सुरकरिकराकारभाजौ भुजौ ते
त्वं मेदिन्यां विकटकटकक्ष्मापकोटेः किरीटम् । . मानस्तोमः प्रभवति भवन्मानसे मुक्तमान
स्तत्त्वं दुर्योधन ! जयधनं चापमारोपयैतत् ॥ २० ॥ दुर्योधनः-(सावहेलं) युवराजमेवादिशामि । ( दुःशासनं प्रति :
कुमार ! सुखमारोप्य दुःशासन ! शरासनम् ।
राधामनपराद्वेषो भिन्द्धि स्त्रीरत्नलब्धये ॥ २१ ॥ दुःशासन:-( सगर्वसंरम्भं )
उद्दण्डमद्भुजादण्डचण्डताकुण्डलीकृतम् । खण्डेन्दुमण्डनस्येदं कोदण्डं यातु खण्डताम् ॥ २२॥ ( इति तदभिमुखमुपसृत्य चापमारोपयन्भूमौ पतति ।) वासुदेव:-( दृष्ट्वा )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org