________________
विजयपाल- विरचितं
भ्युदयसाहाय्यकव्यसनी तत्रभवान् वसुदेवनन्दनः ।
( ततः प्रविशति सोन्मादयादवजनानुगम्यमानः कृष्णः । ) कृष्णः -- ( समन्ताद् मण्डपमवलोक्य स्वगतम् 1 ) शक्रातिक्रमविक्रमक्रमचणं चक्रं नृपाणामितो
१०
वीरे: स्वैरमितो वृतो मदधनो दुर्योधनो भूपतिः । भूपाल: शिशुपाल एष कलितो निस्वानवैर्दानवैः प्रच्छन्नाकृतयश्च पौरुषपुषः पञ्चाप्यमी पाण्डवाः ॥ १४ ॥
अपि च
अयं पञ्चालभूपालश्चापं चण्डीपतेरिदम् । कृतधन्विनो राधाराधावेधमुदीक्षते ॥ १५ ॥
( सस्मरणं सोन्मादं च । ) स्मृतायां नामसाम्येन राधायां राधयानया । आनन्दखेदसम्भेदमासादयति मे मनः ॥ १६ ॥
अपि च-
मन्मथोन्माददायिन्या मनस्विन्या दिवानिशम् | राधाया अपि दुर्भेदं राधाया मन्महे मनः ॥ १७ ॥ ( द्रुपदवासुदेवौ यथोचितं सम्भावयतः । )
द्रुपदः - भगवन् ! मिलितमखिलमपि भूपालमण्डलम् । तदत्रभवन्तो भवन्त एव प्रत्येकं वीरानाहूय राधावेधं कारयत । कृष्णः - एवं कुर्मः । ( इति राधास्तम्भसविधमुपसृत्य उच्चैः स्वरम् । ) भो भो राधावेधमण्डपाभ्युपगताः सर्वेऽपि भूपतयः । शृण्वन्तु भवन्तो द्रुपदनरपतेः प्रतिज्ञाम् । यतः -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org