________________
१५
द्रौपदीखयंवरम् । किं जानासि न विश्वविश्ववलयापर्यायपर्यासना
प्राप्तालं शिशुपाल एष पुरतो राधाभिदे तिष्ठते ॥ ३३ ॥ अन्यच्चयत्रोच्चैः कनकाचलः कलयति स्तम्भस्य लीलायित
ताराचक्रमजस्रचङ्क्रमणतश्चक्रश्रियं गाहते। शीतांशुः श्रयते चलत्तिमिकलां लक्ष्यं तदेणेक्षणं वीरोऽहं तदपि क्षिणोमि रभसात्किं मेऽनया राधया ॥३४॥
( इति ससंरम्भं विकटपदक्रमं परिक्रामति । ) . कृष्ण:-( सभयकम्पं ) न जाने किमिदानीं भविष्यति । अतिबलीयानयं खलः । भवतु, भुवनत्रयं भवधनुषि भाराय समारोपयिष्यामि । ( इति तथा करोति । ) शिशुपाल:-( पुरो भवधनुषि भुवनत्रयमवलोक्य सविस्मयं ) स्वर्गः समग्र इह सम्भृतदेववर्गों
भूरत्र भूरितरभूधरसिन्धुरुद्धा । पातालमत्र फणिजालवृतान्तराल
मालोक्यते धनुषि चित्रमिह त्रिलोकी ॥ ३५ ॥ ( सरोमाञ्चम् )
पुण्यैरगण्यैर्भगवान् प्रसन्नोऽद्य विधिर्मयि ।।
त्रिलोकीजयकीर्तिर्यद्भविता चापभङ्गतः ॥ ३६ ॥ ( कृष्णः- शिशुपाले चापे च मुहुर्मुहुः सभयं दृशं निवेशयति ।)
( शिशुपालो धनुरादत्ते । ) ( कृष्णः सर्वेषामपि मायया नयनालोकं निरुध्य स्वयमुत्थाय कराभ्यां शिशुपालमाहत्य भूमौ पातयित्वा स्वस्थानमेव समेत्योपविशति ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org