SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ विजयपाल- विरचितं ( शिशुपालो मूर्च्छाविरामं प्राप्य सलज्जमपक्रामति । ) कृष्णः - अहो ! द्विजा एवावशिष्यन्ते । तदामन्त्रयाम्येतान् । ( स्वगतं ) धनुर्धरैकधुरीणं सव्यसाचिनमामन्त्रयामि । अहो कार्पटिक - एहि एहि । १६ ( किरीटी उत्थाय राधासविधमुपसर्पति । ) कृष्णः -- यदि कस्यापि भुजबलाभिमानोऽस्ति तदारोप्यतामिदं राधावेधाय धूर्जटेर्धनुः । पार्थ :- ( सविनयं धनुर्नमस्कृत्य ) क्षत्रव्रतमखण्डं चेद्भक्तिर्गुरुषु मे यदि । भव तत्सुकरारोपं भगवन् हरकार्मुक ! ॥ ३७ ॥ ( इति दोर्भ्यामादाय त्रिभागमाक्रम्य धनुरारोपयति । ) गाङ्गेयः -- ( द्रोणं प्रति ) द्विजेन पश्यतानेन केवलं न धनुर्गुणः । परां कोटिं निजप्राणगुणोऽपि गमितः क्षणात् ॥ ३८ ॥ भीमः -- ( जनान्तिकं पार्थं प्रति । ) इदं मया विशिखद्वयमानीतं परं न समर्थोऽसि राधावेधाय । पार्थ: एतां न पाटयाम्यद्य यदि राधां वृकोदर ! | इतः प्रभृति नो चापं करिष्यामि करे ततः ॥ ३९ ॥ ( इति एकेन शरेण मन्दं चक्रमाहन्ति । ) ( नृपाः सर्वेऽपि हसन्ते हर्ष कोलाहलं [च] कुर्वन्ति । ) ( मत्स्यस्तेन शब्देन सविस्मयो निश्चललोचनो विलोकयति । ) ( पार्थो द्वितीयशरेण यथाविधि मीनलोचनकनीनिकामाहन्ति । ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003432
Book TitleDropadiswayamvaram
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1928
Total Pages52
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy