Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 40
________________ १२ विजयपाल-विरचितं कामारिकार्मुकारोपगलितं निजदोर्बलम् । पतितोऽयमधोग्रीवो निरीक्षित इव क्षितौ ॥ २३ ॥ .. ( दुःशासन उत्थाय सलज्जमपकामति ।) दुर्योधनः-( मातुलकशकुनि प्रति । ) धूर्जटेर्धन्व सन्धाय चण्डिमातुलमातुल ! । राधावेधं विधेहि त्वं शकुने ! शकुनेरितः ।। २४ ॥ शकुनि:-( सावज्ञं ) किमस्मिन्नप्यर्थे शकुनालोकनेन । कृष्णः-( स्वगतं ) लीलयैवायं धनुरारोपयिष्यति । तद्भवतु । मायामाचरामि । [शकुनिः ] (यावद्धनुरारोपयति तावदन्तराले [कृष्णः ] वेतालमण्डलं विभीषिकायै प्रेषयति । ) शकुनिः-( उत्थाय यावद्धनुरादित्सति तावदन्तराले वेतालजालमवलोक्य सत्रासकम्पं । ) अहो ! कथमिदं धनुरारोप्यते । यतः शिरालवाचालजटालकाल करालजङ्घालफटालभालम् । उत्तालमुत्तालतमालकालं वेतालजालं स्खलयत्यलं माम् ॥ २५ ॥ ( इति पश्चादपक्रामति । ) ( दुर्योधनो द्रोणसम्मुखमवलोकयति । ) द्रोण:-( दुर्योधनं प्रति ) महाराज! किमस्माकमतिवयसामनया राधया कार्यम् । भवदर्थमेवायमुपक्रमः क्रियते। (इत्युत्थाय धनुरभिमुखं धावति।) ( कृष्णः सहसा तदन्तराले मायामयमन्धकारमकुरयति ।) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52