Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 38
________________ विजयपाल- विरचितं भ्युदयसाहाय्यकव्यसनी तत्रभवान् वसुदेवनन्दनः । ( ततः प्रविशति सोन्मादयादवजनानुगम्यमानः कृष्णः । ) कृष्णः -- ( समन्ताद् मण्डपमवलोक्य स्वगतम् 1 ) शक्रातिक्रमविक्रमक्रमचणं चक्रं नृपाणामितो १० वीरे: स्वैरमितो वृतो मदधनो दुर्योधनो भूपतिः । भूपाल: शिशुपाल एष कलितो निस्वानवैर्दानवैः प्रच्छन्नाकृतयश्च पौरुषपुषः पञ्चाप्यमी पाण्डवाः ॥ १४ ॥ अपि च अयं पञ्चालभूपालश्चापं चण्डीपतेरिदम् । कृतधन्विनो राधाराधावेधमुदीक्षते ॥ १५ ॥ ( सस्मरणं सोन्मादं च । ) स्मृतायां नामसाम्येन राधायां राधयानया । आनन्दखेदसम्भेदमासादयति मे मनः ॥ १६ ॥ अपि च- मन्मथोन्माददायिन्या मनस्विन्या दिवानिशम् | राधाया अपि दुर्भेदं राधाया मन्महे मनः ॥ १७ ॥ ( द्रुपदवासुदेवौ यथोचितं सम्भावयतः । ) द्रुपदः - भगवन् ! मिलितमखिलमपि भूपालमण्डलम् । तदत्रभवन्तो भवन्त एव प्रत्येकं वीरानाहूय राधावेधं कारयत । कृष्णः - एवं कुर्मः । ( इति राधास्तम्भसविधमुपसृत्य उच्चैः स्वरम् । ) भो भो राधावेधमण्डपाभ्युपगताः सर्वेऽपि भूपतयः । शृण्वन्तु भवन्तो द्रुपदनरपतेः प्रतिज्ञाम् । यतः - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52