Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 37
________________ द्रौपदीखयंवरम् । ( द्विजः सर्वानपि शरानाकृष्य कराभ्यां निष्पिष्य वज्रसारशरद्वयमेव दर्शयति ।) प्रतीहारः शरजालेऽमुना क्षुण्णे परिशिष्टावुभौ शरौ । युगान्तसंहृते विश्वे देवौ हरिहराविव ॥ १३ ॥ कर्ण:-( स्वगतं ) अमुना भुवनाद्भुतेन भुजबले भवते भबते ( ? )........ ( इति प्ररिकामति । स्मृत्वा ) वयमपि दुःसाधराधावेधसमुद्यतदुर्योधनवसुधाधिपसविधमधिगच्छामः । ( इति निष्कान्तः।) - भीमः-( परिक्रम्य ) कथममी भ्रातरो मामेव प्रतीक्षमाणाः प्रेक्ष्यन्ते। (ततः प्रविशन्ति युधिष्ठिरादयः । ) भीमसेनः-( शरौ दर्शयति ) प्रचल सत्वरम् (?) । येन तत्र मण्डपे गच्छाम इति । सर्वे-(परिक्रम्य पुरोऽवलोक्य च ) अये! कथमयं मिलत्सकलकाश्यपीवलयमहीपालमालापरिकरलोकसङ्कुलिताकलितबहुलकोलाहलो नभस्तलतरलविपुलपताकामण्डलीमण्डितो राधामण्डपः । (ततः प्रविशति यथोक्तमण्डपस्थः सकलदिगन्तागतनृपचक्रपरिकलितो राधास्तम्भसविधस्थितो द्रुपदः । युधिष्ठिरादयः सर्वे मण्डपैकदेशेन च विशन्ति ।) युधिष्ठिर:-( समन्तादवलोक्य ) कथमद्यापि चिरयति अस्मद Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52