Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 36
________________ विजयपाल-विरचितं कर्णः-( द्विजं प्रति सविशेषरोमाञ्चं खभुजावालोक्य ) जित्वा जगत् किमु ददे ? द्विजः नहि, कर्णः-( सविनयं ) किं स्वमङ्गं दास्ये ददे ?, द्विजः- नहि, कर्ण:-( सहसा सोल्लासं दक्षिणकरेण क्षुरिकामादाय निजकण्ठोपकण्ठे निवेश्य च ) शिरो नु ददे ?, द्विजः-( सौत्सुक्यं कराभ्यां क्षुरिकाकरं धारयन् ) न नैतत् । कर्णः-( सवैलक्ष्यम् ) यद्रोचते कथय तन्मुदितोऽस्मि येन गम्भीरधीरमधुरेण तव स्वरेण ॥ ११ ॥ द्विजः-( सप्रत्याशं ) ___ भगवद्भार्गवादत्तशरपञ्चकमध्यतः । राधावेधाय राधेय ! ममार्पय शरद्वयम् ॥ १२ ॥ कर्णः-( सचमत्कारं स्वगतं ) अहो ! द्विजातिजातिदुर्लभः क्षत्रियकुलोचितोऽयमस्य मनोरथः । (प्रकाशं ) अयि प्रतीहार ! तूर्णं तूणीरममुष्य देहि । येन निजपरीक्षया स्वीकरोति शरद्वयम् । द्विजः- x x x x x x कर्ण:-( अपवार्य प्रतीहारस्य कर्णे ।) एवमेव । ( प्रतीहारस्तथा करोति ।) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52