________________
विजयपाल-विरचितं कर्णः-( द्विजं प्रति सविशेषरोमाञ्चं खभुजावालोक्य )
जित्वा जगत् किमु ददे ? द्विजः
नहि, कर्णः-( सविनयं )
किं स्वमङ्गं दास्ये ददे ?, द्विजः- नहि,
कर्ण:-( सहसा सोल्लासं दक्षिणकरेण क्षुरिकामादाय निजकण्ठोपकण्ठे निवेश्य च )
शिरो नु ददे ?, द्विजः-( सौत्सुक्यं कराभ्यां क्षुरिकाकरं धारयन् ) न नैतत् । कर्णः-( सवैलक्ष्यम् )
यद्रोचते कथय तन्मुदितोऽस्मि येन
गम्भीरधीरमधुरेण तव स्वरेण ॥ ११ ॥ द्विजः-( सप्रत्याशं ) ___ भगवद्भार्गवादत्तशरपञ्चकमध्यतः ।
राधावेधाय राधेय ! ममार्पय शरद्वयम् ॥ १२ ॥ कर्णः-( सचमत्कारं स्वगतं ) अहो ! द्विजातिजातिदुर्लभः क्षत्रियकुलोचितोऽयमस्य मनोरथः । (प्रकाशं ) अयि प्रतीहार ! तूर्णं तूणीरममुष्य देहि । येन निजपरीक्षया स्वीकरोति शरद्वयम् ।
द्विजः- x x x x x x कर्ण:-( अपवार्य प्रतीहारस्य कर्णे ।) एवमेव ।
( प्रतीहारस्तथा करोति ।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org