Book Title: Dropadiswayamvaram
Author(s): Jinvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 49
________________ द्रौपदीस्वयंवरम् । २१ मागधी - ( क ) एस निअविक्कमकंतसयल भूवालो सिसुवालो । पाञ्चाली - (ख) अलमिमिणा धम्मपरम्मुहेण । अर्जुन : – ( आयान्तीं पाश्चालीमालोक्य स्वगतम् । ) ललितेषु कृतोत्कर्षा गरिष्ठगुणसङ्गिनी । सद्वंशप्रभवा भाति स्मरस्येव धनुर्लता ॥ ३ ॥ मागधी - ( द्विजान्दर्शयन्ती ) ( ग ) पियसहि ! इदो इदो पिच्छ, एदे राहावेहवियंभियजसपेसलपुरिसविसेससणाहा दियवरा दीसंति । पाञ्चाली - ( सानुरागं साभिलाषं अर्जुनाभिमुखं वीक्ष्य स्वगतं सस्नेहम् 1 ) (घ) अणुदिणधणुगुणकढणकढिणंगुलिछलफुरंतमयणसरो । एयस्स करो कइया मह करकमलसङ्ग्रहं किरही ॥ ४ ॥ जलहरगोवियदिणयरसमेण दियवेसछन्नतेपण | भिन्ना इमिणा राहा बाणेहि गुणेहि मह हिययं ॥ ५॥ ( क ) एष निजविक्रमाक्रान्तसकलभूपालः शिशुपालः । ( ख ) अलमनेन धर्मपराङ्मुखेन । ( ग ) प्रियसखि ! इत इतः पश्य, एते राधावेधविजृम्भितयशः पेशल पुरुषविशेषसनाथा द्विजवरा दृश्यन्ते । (घ) अनुदिनधनुर्गुणकर्षण कठिनाङ्गुलिच्छलस्फुरन्मदनशरः । एतस्य करः कदा मम करकमलसङ्गमं करिष्यति ॥ ४ ॥ जलधर गोपितदिनकरसमेन द्विजवेषच्छन्नतेजसा । भिन्नाऽनेन राधा वाणैर्गुणैर्मम हृदयम् ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52