________________
द्रौपदीस्वयंवरम् ।
२१
मागधी - ( क ) एस निअविक्कमकंतसयल भूवालो सिसुवालो । पाञ्चाली - (ख) अलमिमिणा धम्मपरम्मुहेण । अर्जुन : – ( आयान्तीं पाश्चालीमालोक्य स्वगतम् । )
ललितेषु कृतोत्कर्षा गरिष्ठगुणसङ्गिनी । सद्वंशप्रभवा भाति स्मरस्येव धनुर्लता ॥ ३ ॥
मागधी - ( द्विजान्दर्शयन्ती ) ( ग ) पियसहि ! इदो इदो पिच्छ, एदे राहावेहवियंभियजसपेसलपुरिसविसेससणाहा दियवरा दीसंति ।
पाञ्चाली - ( सानुरागं साभिलाषं अर्जुनाभिमुखं वीक्ष्य स्वगतं सस्नेहम् 1 )
(घ) अणुदिणधणुगुणकढणकढिणंगुलिछलफुरंतमयणसरो । एयस्स करो कइया मह करकमलसङ्ग्रहं किरही ॥ ४ ॥ जलहरगोवियदिणयरसमेण दियवेसछन्नतेपण | भिन्ना इमिणा राहा बाणेहि गुणेहि मह हिययं ॥ ५॥
( क ) एष निजविक्रमाक्रान्तसकलभूपालः शिशुपालः । ( ख ) अलमनेन धर्मपराङ्मुखेन ।
( ग ) प्रियसखि ! इत इतः पश्य, एते राधावेधविजृम्भितयशः पेशल पुरुषविशेषसनाथा द्विजवरा दृश्यन्ते ।
(घ) अनुदिनधनुर्गुणकर्षण कठिनाङ्गुलिच्छलस्फुरन्मदनशरः ।
एतस्य करः कदा मम करकमलसङ्गमं करिष्यति ॥ ४ ॥ जलधर गोपितदिनकरसमेन द्विजवेषच्छन्नतेजसा । भिन्नाऽनेन राधा वाणैर्गुणैर्मम हृदयम् ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org