________________
विजयपाल-विरचित अर्जुन:-(खगतम् ) पुष्पायुधेन गुरुणा विहितोपदेशा
लोलं शरव्यमिव हन्त ! मनो मदीयम् । लोलाविकुञ्चितविलोचनचापलेखा
मुक्तेन विध्यति कटाक्षशरेण कान्ता ॥ ६ ॥ पाञ्चाली-(क) गुणाणुमाणेण आयारोऽवि मणहरो इमस्स ।
मागधी-(पाञ्चाली सानुरागां विज्ञाय किञ्चिस्मित्वा) (ख) सहि! अग्गदो गम्मदु ।
पाञ्चाली—( सलज्जम् ) (ग) सहि ! जेण मह जणयपइण्णामहण्णवो गरुयगुणगणेण पयंडभुअदंडतरंडेण उत्तिन्नो तस्स साहीणो अयं जणो।
मागधी-(घ ) ता गिन्हेसु नियकरकमलेन सयंवरमालियं । निवेसेहि झत्ति इमस्स कंठकंदलंमि ।
( अन्ये राजानः पाञ्चाली द्विजसन्निधौ स्थितां दृष्ट्वा वैलक्ष्येण श्वासमुखतां भजन्ते।)
( क ) गुणानुमानेन आकारोऽपि मनोहरोऽस्य । ( ख ) सखि ! अग्रतो गम्यताम् ।
(ग) सखि ! येन मम जनकप्रतिज्ञामहार्णवो गुरुकगुणगणेन प्रचण्डभुजदण्डतरण्डेन उत्तीर्णस्तस्य स्वाधीनोऽयं जनः ।।
(घ ) तद् गृहाण निजकरकमलेन स्वयंवरमालिकाम् । निवेशय क्षगिति अस्य कण्ठकन्दले ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org