Book Title: Dhaturatnakar Part 4
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi

View full book text
Previous | Next

Page 348
________________ नामधातुप्रक्रिया ( क्यन्प्रत्ययान्त) ६ वाक्काम्या - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।। ७ वाक्काम्या (वाक्काम्य्या) - त्, स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥ ८ वाक्काम्यिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ वाक्काम्यिष्यति, तः, न्ति । सि, थः, थ। आमि, आवः आमः ॥ " १० अवाक्काम्यिष्य- त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। अत्र चजः कगम् । २।१।८३ । इति चस्य कत्वविधिप्रदर्शनार्थमिदमुदाहरणम् ।। 1 नमोवरिवश्चित्रोऽर्चासेवाश्चर्ये ।। ३ ।४ ।३७ ।। नमस्वरिवस्चित्रशब्देभ्यः कर्मयो यथासङ्ख्यं पूजासेवाश्चर्येष्वर्थेषु करोत्यर्थे क्यन्प्रत्ययो वा भवति । देवेभ्यो नमस्करोति नमस्यति देवान् । गुरुणा वरिवः करोति वरिवस्यति गुरून् । चित्रं करोति चित्रीयते । डकार आत्मनेपदार्थः अर्चादिष्वित किम् ? नमः करोति, वरिवः करोति । नमोवरिवः शब्दमुच्चारयतीत्यर्थः । चित्रं करोति । नानात्वमालेख्यं एवं करोतीत्यर्थः । गोकाम्य, धनकाम्यप्रभृतीनां वा वा: काम्य, च ननु नमस्यति देवानित्यत्र काम्यप्रत्ययान्तानां नामधातूनां रूपाणि ज्ञेयानि ।। नमः शब्दसंयोगनिबन्धना चतुर्थी कस्मान्न भवति । उच्यते । नामधातूनामिविवक्षितप्रकृतिप्रत्ययभेदानां धातुत्वादनर्थकोऽत्र नमः शब्द । उपपदविभक्तेर्वा कारकविभक्तिर्बलीयसी । एवं च नमस्करोति देवानिति वाक्येऽपि द्वितीया सिद्धा । यद्येवं नमस्करोति देवेभ्य इति न भवितव्यम् । नैवम् । करोतेः नमः शब्दसम्बन्धेन देवपदेनासम्बन्धात् । कस्मै इति त्वाकाङ्क्षायां देवेभ्य इति सम्बन्धाच्चतुर्थी सम्प्रदाने वेत्यदोषः ।। इति काम्यप्रत्ययान्तप्रकरणम् ॥ क्षुत्तृड्गर्थेऽशनायोदन्यधनायम् । ।४ । ३ । ११३ ।। क्षुदादिष्वर्थेषु यथासङ्ख्यमशनायादयः क्यन्नन्ता निपात्यन्ते क्षुधि गम्यमानायामशनशब्दस्यात्वम्, तृषि गम्यमानायामुकशब्दस्योदन्नित्ययमादेशः गर्थे गम्यमाने धनशब्दस्यात्वम्, क्यनि परे निपात्यते । अशनायति । उदन्यति । धनायति । क्षुत्तृङ्गर्ध इति किम् ? अशनीयति, उदकीयति, धनीयति दानाय । उपादीयतामिदमत्र नवनीतं क्यन्नन्तनामधातुनैपुण्याभिलाषुकै: इच्छार्थे, आचारार्थे, करोत्यर्थे च क्यन् प्रत्ययो भवति । तत्रेच्छार्थे मकारान्तवर्जाद् अव्ययवर्जाच्च द्वितीयान्तान्नाम्नः क्यन् प्रत्ययो भवति । यथा पुत्रमिच्छतीति पुत्रीयति । आचारार्थे किल द्वौ प्रकारौ । तथाहि । उपमानभूताद् द्वितीयान्तान्नाम्न आचारार्थे क्यन् प्रत्ययो भवतीत्येकः प्रकारः । यथा पुत्रमिवाचरतीति पुत्रीयति छात्रम् । उपमानभूताद् आधारवाचकात् सप्तम्यन्तान्नाम्न आचारार्थे क्यन् प्रत्ययो भवतीति द्वितीयः प्रकारः । यथा प्रासाद इवाचरतीति प्रासादीयति कुट्याम् करोत्यर्थेऽपि द्वौ प्रकारौ । तथाहि । सम्भवदर्थमध्यान्यतरस्मिन्नर्थे विवक्षिते कर्मवाचकान्नाम्नः करोत्यर्थे क्यन् प्रत्ययो भवतीत्याद्यः प्रकारः । यथा तपः करोतीति तपस्यति । अस्मिन् प्रकार एकमेवोदाहरणम् । नानार्थसम्भवेऽपि क्यन्नन्तसमुदायस्यार्थविशेषवृत्तितायामेव कर्मवाचकानाम्नः करोत्यर्थे क्यन् प्रत्ययो भवतीति द्वितीय: 335 | तपस्यति शत्रूनिति । यथा व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयति । 44 ।। अथ क्यन्प्रत्ययान्तप्रकरणम् ॥ ननु कीदृशान्नाम्नः कस्मिन्कस्मिन्नर्थे 'क्यन्' प्रत्ययो भवतीति चेल्लक्ष्यतामियं पञ्चलक्षणी ।। अमाव्ययात् क्यन् च ।। ३ ।४।२३ ।। अमकारान्तादनव्ययाच्च द्वितीयान्तान्नाम्न इच्छायामर्थे क्यन् प्रत्ययो वा भवति काम्यश्च । पुत्रमिच्छति पुत्रीयति । एवं नाव्यति । वाच्यति । चकारः काम्यार्थोऽन्यथा मान्ताव्यययोः सावकाशः स क्यना बाध्येत । अमाव्ययादितिकिम् ? इदमिच्छति । स्वरिच्छति। गोशब्दसंध्यक्षरवर्जस्वरनान्तेभ्य एव क्यनमिच्छन्त्यन्ये । गव्यति । पुत्रीयति । राजीयति । अन्यत्र न भवति । यमिच्छति । कमिच्छति । नकार : क्यनि इत्यत्र विशेषणार्थः | ककारः क्यग्रहणे सामान्यग्रहणार्थः ।। आधाराच्चोपमानादाचारे । । १३ १४ १२४ ।। अमाव्ययादुपमानभूताद् द्वितीयान्तादाधाराच्चाचारार्थे क्यन् प्रत्ययो भवति वा । पुत्रमिवाचरति पुत्रीयति छात्रम् । वस्त्रीयति कम्बलम् । पुक्षीपति स्थूलं दर्शनीयं वा । आधारात् - प्रासाद इवाचरति । प्रासादीयति कुट्याम् । पर्यङ्कीयति मञ्चके । उपमानादिति किम्, छात्रादेर्मा भूत आधाराच्चेति किम्, परशुना दात्रेणेवाचरति । अमाव्ययादिति किम्, इदमिवाचरति । नित्यमुपमेयापेक्षत्वात् स्वरिवाचरति । उपमानस्य सापेक्षत्वेऽप्यसामर्थ्यं न भवति । तपसः क्यन् ।। ३४ । ३६ ।। तपः शब्दात्कर्मणः करोत्यर्थे क्यन् प्रत्ययो वा भवति । तपः करोति तपस्यति । अत्र यदा व्रतपर्यायस्तपः शब्दस्तदा क्यन्दकर्मणो वृत्तावन्तभूतत्वादकर्मकत्वम्, यदा तु सन्तापक्रियावचनस्तदा क्यन्कर्मणो वृत्तावन्तर्भावेऽपि स्वकर्मणा सकर्मक एव । शत्रूणां तपः करोति Jain Education International "1 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522