Book Title: Dhaturatnakar Part 4
Author(s): Lavanyasuri
Publisher: Rashtriya Sanskrit Sansthan New Delhi

View full book text
Previous | Next

Page 408
________________ नामधातुप्रक्रिया (क्यप्रत्ययान्त) ६ होडा - ञ्चक्रेर इ० ।। म्बभूव इ० ।। मास इ० ॥ ७ होडिषी ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ।। ८ होडिता - " रौ, रः से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ होडिष्य्- अते, एते, अन्ते, असे एथे, अध्वे, ए, आवहे, आमहे ।। १० अहोडिष्य्-अत, एताम्, अन्त, अथा: एथाम्, अध्वम्, ए, आवहि, आमहि ।। ॥ इति किप्प्रत्ययान्ता नामधातवः ।। ॥ अथ क्यङ्प्रत्ययान्तप्रकरणम् ॥ निरूपिताः क्विबन्ता नामधातवः । अथ क्यङ्प्रत्ययान्ता नामधातवो निरूपणीयाः । ननु कीदृशान्नाम्नः कस्मिन् कस्मिन्नर्थे क्यङ् प्रत्ययो भवतीति चेदधीष्वेमानि सूत्राणि - क्यङ् || ३।४।२६॥ कर्त्तुरुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति । श्येन इवाचरति श्येनायते। हंसायते । अश्वायते । गर्दभायते । गल्भायते । कीबायते । होडायते । क्विप्क्यडोस्तुल्यविषयत्वादसत्युत्सर्गापवादत्वे पर्यायेण प्रयोगः । ककारः सामान्तग्रहणार्थः । ङकार आत्मनेपदार्थः ।। २६ ।। सो वा लुक् च ॥ ३।४।२७॥ । स इति आवृत्त्या पञ्चम्यन्तं षष्ठ्यन्तं चाभिसम्बध्यते । सकारान्तात्कर्तुरुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति, अन्त्यसकारस्य च लुग्वा भवति । पय इवाचरतीति पयायते पयस्यते। सरायते। सरस्यते । अन्ये त्वप्सरस एव सलोपो नान्यस्य, अप्सरायते, अन्यत्र पयस्यते इत्याद्येवेत्याहु: । क्यङ् सिद्धो लुगर्थं वचनम्। चकारो लुकः क्यङ् सन्नियोगार्थः ॥ २७ ॥ ओजोऽप्सरसः ।।३।४।२८ ॥ ओजः शब्दो वृत्तिविषये स्वभावात्तद्वति वर्तते । ओजस्शब्दादप्सरस्शब्दाच्च कर्त्तुरुपमानभूतादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति स लोपश्च । ओजस्वीवाचरतीति ओजायते । अप्सरायते । अन्ये त्वोजः शब्दे सलोपविकल्पमिच्छन्ति । ओजायते, ओजस्यते ॥ २८ ॥ च्व्यर्थे भृशादेः स्तोः ||३|४|२९|| Jain Education International 395 भृशादिभ्यः कर्तृभ्यश्व्यर्थे क्यङ् प्रत्ययो वा भवति, सकारतकारयोर्यथासम्भवं लुक् च । च्व्यर्थे इत्यनेन लक्षणया भवत्यर्थविशिष्टं प्रागतत्तत्त्वमुच्यते, करोतिस्तु कर्तुरित्यनेन व्युदस्तः, भवत्यर्थे च विधानात् क्यङ्ङन्तस्य क्रियार्थत्वं भवत्यर्थशब्दाप्रयोगश्च । अभृशो भृशो भवति भृशायते । उन्मनायते । वेहायते । अनोजस्वी ओजस्वी भवति ओजायते । अत्र तद्वद्वृत्तेरेव च्व्यर्थ इति धर्ममात्रवृत्तेर्न भवति । अनोज ओजो भवति । कर्तुरित्येव अभृशं भृशं करोति । च्व्यर्थ इति किम् ? भृशो भवति । प्रागतत्तत्त्वमात्रे च्वेर्विधानात् य विर्न बाध्यते । भृशीभवति । भृश उत्सुक शीघ्र चपल पण्डित आण्डर कण्डर फेन शुचि नील हरित मन्द मद्र भद्र संश्चत् तृपत् रेफत् रेहत् वेहत् वर्चस् उन्मनम् सुमनस् दुर्मनस् अभिमनस् (ओजस् ) इति भृशादयः ।। २९ ।। कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे || ३ | ४ | ३१ ।। कष्टादिभ्यो निर्देशादेव चतुर्थ्यन्तेभ्यः पापे वर्तमानेभ्यः क्रमणेऽर्थे क्यङ् प्रत्ययो भवति । कष्टाय कर्मणे क्रामति कष्टायते । एवं कक्षायते । कृच्छ्रायते । सत्रायते । गहनायते । कष्टादिभ्य किम् ? कुटिलाय कर्मणे क्रामति । चतुर्थीनिर्देशः किम् ? रिपुः कष्टं क्रामति । पाप इति किम् ? कष्टाय तपसे क्रामति । क्रमणमत्र न पादविक्षेपः किन्तु प्रवृत्तिमात्रम् । द्वितीयान्तेभ्यः पापचिकीर्षायामित्यन्ये । कष्टं चिकीर्षति कष्टायते इत्यादि । । ३१ ।। रोमन्थाद् व्याप्यादुच्चर्वणे॥३॥४॥३२॥ रोमन्थात् कर्मणः परे उच्चर्वणेऽर्थे क्यङ् प्रत्ययो वा भवति । अभ्यवहृतं द्रव्यं रोमन्थः । उदीर्य चर्वणमुच्चर्वणम् । रोमन्थमुच्चर्वयति रोमन्थायते गौः, उद्गीर्य चर्वयतीत्यर्थः। उच्चर्वण इति किम् ? कीटो रोमन्थं वर्तयति, उद्गीर्य 'बहित्यक्तं पृष्ठान्तेन निर्गतं वा द्रव्यं गुटिकां करोतीत्यर्थः ।। ३२ ।। फेनोष्मवाष्पधूमादुद्वमने।।३।४।३३॥ फेनादिभ्यः कर्मभ्य उद्वमनेऽर्थे क्यङ् प्रत्ययो वा भवति । फेनमुद्वमति फेनायते । एवमूष्मायते । बाष्पायते। धूमायते।।३३।। सुखादेरनुभवे ।।३।४।३४। साक्षात्कारोऽनुभवस्तस्मिन्नर्थे सुखादिभ्यः कर्मभ्यः क्यङ् प्रत्ययो वा भवति। सुखमनुभवति सुखायते । दुःखायते । अनुभव इति किम् ? सुखं वेदयते प्रसाधको देवदत्तस्य, मुखादिविकारेणानुमानतो निश्चिनोतीत्यर्थः । (सुख दुःख तृप्र कृच्छ्र आत्र अलीक करण कृपण सोढ प्रतीप ) । । ३४ ।। For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522