________________
नामधातुप्रक्रिया (क्यप्रत्ययान्त)
६ होडा - ञ्चक्रेर इ० ।। म्बभूव इ० ।। मास इ० ॥
७ होडिषी ष्ट, यास्ताम्, रन्, ष्ठाः यास्थाम्, ध्वम्, य, वहि, महि ।। ८ होडिता - " रौ, रः से, साधे, ध्वे, हे, स्वहे, स्महे ।। ९ होडिष्य्- अते, एते, अन्ते, असे एथे, अध्वे, ए, आवहे, आमहे ।।
१० अहोडिष्य्-अत, एताम्, अन्त, अथा: एथाम्, अध्वम्, ए, आवहि, आमहि ।।
॥ इति किप्प्रत्ययान्ता नामधातवः ।।
॥ अथ क्यङ्प्रत्ययान्तप्रकरणम् ॥
निरूपिताः क्विबन्ता नामधातवः । अथ क्यङ्प्रत्ययान्ता नामधातवो निरूपणीयाः । ननु कीदृशान्नाम्नः कस्मिन् कस्मिन्नर्थे क्यङ् प्रत्ययो भवतीति चेदधीष्वेमानि सूत्राणि - क्यङ् || ३।४।२६॥
कर्त्तुरुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति । श्येन इवाचरति श्येनायते। हंसायते । अश्वायते । गर्दभायते । गल्भायते । कीबायते । होडायते । क्विप्क्यडोस्तुल्यविषयत्वादसत्युत्सर्गापवादत्वे पर्यायेण प्रयोगः । ककारः सामान्तग्रहणार्थः । ङकार आत्मनेपदार्थः ।। २६ ।।
सो वा लुक् च ॥ ३।४।२७॥
।
स इति आवृत्त्या पञ्चम्यन्तं षष्ठ्यन्तं चाभिसम्बध्यते । सकारान्तात्कर्तुरुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति, अन्त्यसकारस्य च लुग्वा भवति । पय इवाचरतीति पयायते पयस्यते। सरायते। सरस्यते । अन्ये त्वप्सरस एव सलोपो नान्यस्य, अप्सरायते, अन्यत्र पयस्यते इत्याद्येवेत्याहु: । क्यङ् सिद्धो लुगर्थं वचनम्। चकारो लुकः क्यङ् सन्नियोगार्थः ॥ २७ ॥ ओजोऽप्सरसः ।।३।४।२८ ॥
ओजः शब्दो वृत्तिविषये स्वभावात्तद्वति वर्तते । ओजस्शब्दादप्सरस्शब्दाच्च कर्त्तुरुपमानभूतादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति स लोपश्च । ओजस्वीवाचरतीति ओजायते । अप्सरायते । अन्ये त्वोजः शब्दे सलोपविकल्पमिच्छन्ति । ओजायते, ओजस्यते ॥ २८ ॥
च्व्यर्थे भृशादेः स्तोः ||३|४|२९||
Jain Education International
395
भृशादिभ्यः कर्तृभ्यश्व्यर्थे क्यङ् प्रत्ययो वा भवति, सकारतकारयोर्यथासम्भवं लुक् च । च्व्यर्थे इत्यनेन लक्षणया भवत्यर्थविशिष्टं प्रागतत्तत्त्वमुच्यते, करोतिस्तु कर्तुरित्यनेन व्युदस्तः, भवत्यर्थे च विधानात् क्यङ्ङन्तस्य क्रियार्थत्वं भवत्यर्थशब्दाप्रयोगश्च । अभृशो भृशो भवति भृशायते । उन्मनायते । वेहायते । अनोजस्वी ओजस्वी भवति ओजायते । अत्र तद्वद्वृत्तेरेव च्व्यर्थ इति धर्ममात्रवृत्तेर्न भवति । अनोज ओजो भवति । कर्तुरित्येव अभृशं भृशं करोति । च्व्यर्थ इति किम् ? भृशो भवति । प्रागतत्तत्त्वमात्रे च्वेर्विधानात् य विर्न बाध्यते । भृशीभवति । भृश उत्सुक शीघ्र चपल पण्डित आण्डर कण्डर फेन शुचि नील हरित मन्द मद्र भद्र संश्चत् तृपत् रेफत् रेहत् वेहत् वर्चस् उन्मनम् सुमनस् दुर्मनस् अभिमनस् (ओजस् ) इति भृशादयः ।। २९ ।।
कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे || ३ | ४ | ३१ ।।
कष्टादिभ्यो निर्देशादेव चतुर्थ्यन्तेभ्यः पापे वर्तमानेभ्यः क्रमणेऽर्थे क्यङ् प्रत्ययो भवति । कष्टाय कर्मणे क्रामति कष्टायते । एवं कक्षायते । कृच्छ्रायते । सत्रायते । गहनायते । कष्टादिभ्य किम् ? कुटिलाय कर्मणे क्रामति । चतुर्थीनिर्देशः किम् ? रिपुः कष्टं क्रामति । पाप इति किम् ? कष्टाय तपसे क्रामति । क्रमणमत्र न पादविक्षेपः किन्तु प्रवृत्तिमात्रम् । द्वितीयान्तेभ्यः पापचिकीर्षायामित्यन्ये । कष्टं चिकीर्षति कष्टायते इत्यादि । । ३१ ।।
रोमन्थाद् व्याप्यादुच्चर्वणे॥३॥४॥३२॥
रोमन्थात् कर्मणः परे उच्चर्वणेऽर्थे क्यङ् प्रत्ययो वा भवति । अभ्यवहृतं द्रव्यं रोमन्थः । उदीर्य चर्वणमुच्चर्वणम् । रोमन्थमुच्चर्वयति रोमन्थायते गौः, उद्गीर्य चर्वयतीत्यर्थः। उच्चर्वण इति किम् ? कीटो रोमन्थं वर्तयति, उद्गीर्य 'बहित्यक्तं पृष्ठान्तेन निर्गतं वा द्रव्यं गुटिकां करोतीत्यर्थः ।। ३२ ।।
फेनोष्मवाष्पधूमादुद्वमने।।३।४।३३॥
फेनादिभ्यः कर्मभ्य उद्वमनेऽर्थे क्यङ् प्रत्ययो वा भवति । फेनमुद्वमति फेनायते । एवमूष्मायते । बाष्पायते। धूमायते।।३३।। सुखादेरनुभवे ।।३।४।३४।
साक्षात्कारोऽनुभवस्तस्मिन्नर्थे सुखादिभ्यः कर्मभ्यः क्यङ् प्रत्ययो वा भवति। सुखमनुभवति सुखायते । दुःखायते । अनुभव इति किम् ? सुखं वेदयते प्रसाधको देवदत्तस्य, मुखादिविकारेणानुमानतो निश्चिनोतीत्यर्थः । (सुख दुःख तृप्र कृच्छ्र आत्र अलीक करण कृपण सोढ प्रतीप ) । । ३४ ।।
For Private & Personal Use Only
www.jainelibrary.org