________________
नामधातुप्रक्रिया ( क्यन्प्रत्ययान्त)
६ वाक्काम्या - ञ्चकार इ० ।। म्बभूव इ० ।। मास इ० ।।
७ वाक्काम्या (वाक्काम्य्या) - त्, स्ताम्, सुः स्तम्, स्त, सम्, स्व, स्म ॥
८ वाक्काम्यिता- ", रौ, रः । सि, स्थः, स्थ। स्मि, स्वः स्मः ॥ ९ वाक्काम्यिष्यति, तः, न्ति । सि, थः, थ। आमि, आवः
आमः ॥
"
१० अवाक्काम्यिष्य- त्, ताम्, न् । :, तम्, त । म्, आव, आम ।। अत्र चजः कगम् । २।१।८३ । इति चस्य कत्वविधिप्रदर्शनार्थमिदमुदाहरणम् ।।
1
नमोवरिवश्चित्रोऽर्चासेवाश्चर्ये ।। ३ ।४ ।३७ ।। नमस्वरिवस्चित्रशब्देभ्यः कर्मयो यथासङ्ख्यं पूजासेवाश्चर्येष्वर्थेषु करोत्यर्थे क्यन्प्रत्ययो वा भवति । देवेभ्यो नमस्करोति नमस्यति देवान् । गुरुणा वरिवः करोति वरिवस्यति गुरून् । चित्रं करोति चित्रीयते । डकार आत्मनेपदार्थः अर्चादिष्वित किम् ? नमः करोति, वरिवः करोति । नमोवरिवः शब्दमुच्चारयतीत्यर्थः । चित्रं करोति । नानात्वमालेख्यं एवं करोतीत्यर्थः । गोकाम्य, धनकाम्यप्रभृतीनां वा वा: काम्य, च ननु नमस्यति देवानित्यत्र काम्यप्रत्ययान्तानां नामधातूनां रूपाणि ज्ञेयानि ।। नमः शब्दसंयोगनिबन्धना चतुर्थी कस्मान्न भवति । उच्यते । नामधातूनामिविवक्षितप्रकृतिप्रत्ययभेदानां धातुत्वादनर्थकोऽत्र नमः शब्द । उपपदविभक्तेर्वा कारकविभक्तिर्बलीयसी । एवं च नमस्करोति देवानिति वाक्येऽपि द्वितीया सिद्धा । यद्येवं नमस्करोति देवेभ्य इति न भवितव्यम् । नैवम् । करोतेः नमः शब्दसम्बन्धेन देवपदेनासम्बन्धात् । कस्मै इति त्वाकाङ्क्षायां देवेभ्य इति सम्बन्धाच्चतुर्थी सम्प्रदाने वेत्यदोषः ।।
इति काम्यप्रत्ययान्तप्रकरणम् ॥
क्षुत्तृड्गर्थेऽशनायोदन्यधनायम् । ।४ । ३ । ११३ ।।
क्षुदादिष्वर्थेषु यथासङ्ख्यमशनायादयः क्यन्नन्ता निपात्यन्ते क्षुधि गम्यमानायामशनशब्दस्यात्वम्, तृषि गम्यमानायामुकशब्दस्योदन्नित्ययमादेशः गर्थे गम्यमाने धनशब्दस्यात्वम्, क्यनि परे निपात्यते । अशनायति । उदन्यति । धनायति । क्षुत्तृङ्गर्ध इति किम् ? अशनीयति, उदकीयति, धनीयति दानाय । उपादीयतामिदमत्र नवनीतं क्यन्नन्तनामधातुनैपुण्याभिलाषुकै:
इच्छार्थे, आचारार्थे, करोत्यर्थे च क्यन् प्रत्ययो भवति । तत्रेच्छार्थे मकारान्तवर्जाद् अव्ययवर्जाच्च द्वितीयान्तान्नाम्नः क्यन् प्रत्ययो भवति । यथा पुत्रमिच्छतीति पुत्रीयति । आचारार्थे किल द्वौ प्रकारौ । तथाहि । उपमानभूताद् द्वितीयान्तान्नाम्न आचारार्थे क्यन् प्रत्ययो भवतीत्येकः प्रकारः । यथा पुत्रमिवाचरतीति पुत्रीयति छात्रम् । उपमानभूताद् आधारवाचकात् सप्तम्यन्तान्नाम्न आचारार्थे क्यन् प्रत्ययो भवतीति द्वितीयः प्रकारः । यथा प्रासाद इवाचरतीति प्रासादीयति
कुट्याम् करोत्यर्थेऽपि द्वौ प्रकारौ । तथाहि । सम्भवदर्थमध्यान्यतरस्मिन्नर्थे विवक्षिते कर्मवाचकान्नाम्नः करोत्यर्थे क्यन् प्रत्ययो भवतीत्याद्यः प्रकारः । यथा तपः करोतीति तपस्यति । अस्मिन् प्रकार एकमेवोदाहरणम् । नानार्थसम्भवेऽपि क्यन्नन्तसमुदायस्यार्थविशेषवृत्तितायामेव कर्मवाचकानाम्नः करोत्यर्थे क्यन् प्रत्ययो भवतीति द्वितीय:
335
| तपस्यति शत्रूनिति । यथा व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयति ।
44
।। अथ क्यन्प्रत्ययान्तप्रकरणम् ॥ ननु कीदृशान्नाम्नः कस्मिन्कस्मिन्नर्थे 'क्यन्' प्रत्ययो भवतीति चेल्लक्ष्यतामियं पञ्चलक्षणी ।। अमाव्ययात् क्यन् च ।। ३ ।४।२३ ।। अमकारान्तादनव्ययाच्च द्वितीयान्तान्नाम्न इच्छायामर्थे क्यन् प्रत्ययो वा भवति काम्यश्च । पुत्रमिच्छति पुत्रीयति । एवं नाव्यति । वाच्यति । चकारः काम्यार्थोऽन्यथा मान्ताव्यययोः सावकाशः स क्यना बाध्येत । अमाव्ययादितिकिम् ? इदमिच्छति । स्वरिच्छति। गोशब्दसंध्यक्षरवर्जस्वरनान्तेभ्य एव क्यनमिच्छन्त्यन्ये । गव्यति । पुत्रीयति । राजीयति । अन्यत्र न भवति । यमिच्छति । कमिच्छति । नकार : क्यनि इत्यत्र विशेषणार्थः | ककारः क्यग्रहणे सामान्यग्रहणार्थः ।।
आधाराच्चोपमानादाचारे । । १३ १४ १२४ ।। अमाव्ययादुपमानभूताद् द्वितीयान्तादाधाराच्चाचारार्थे क्यन् प्रत्ययो भवति वा । पुत्रमिवाचरति पुत्रीयति छात्रम् । वस्त्रीयति कम्बलम् । पुक्षीपति स्थूलं दर्शनीयं वा । आधारात् - प्रासाद इवाचरति । प्रासादीयति कुट्याम् । पर्यङ्कीयति मञ्चके । उपमानादिति किम्, छात्रादेर्मा भूत आधाराच्चेति किम्, परशुना दात्रेणेवाचरति । अमाव्ययादिति किम्, इदमिवाचरति । नित्यमुपमेयापेक्षत्वात्
स्वरिवाचरति । उपमानस्य सापेक्षत्वेऽप्यसामर्थ्यं न भवति ।
तपसः क्यन् ।। ३४ । ३६ ।। तपः शब्दात्कर्मणः करोत्यर्थे क्यन् प्रत्ययो वा भवति । तपः करोति तपस्यति । अत्र यदा व्रतपर्यायस्तपः शब्दस्तदा क्यन्दकर्मणो वृत्तावन्तभूतत्वादकर्मकत्वम्, यदा तु सन्तापक्रियावचनस्तदा क्यन्कर्मणो वृत्तावन्तर्भावेऽपि स्वकर्मणा सकर्मक एव । शत्रूणां तपः करोति
Jain Education International
"1
For Private & Personal Use Only
www.jainelibrary.org