Book Title: Dharm Pariksha
Author(s): Amitgati Acharya, 
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 385
________________ ३५४ पाश्वकीतिविरचिता व्याधयः। मधुबिन्दवः सुखमिति । यथैतत्सुखं तथा संसारिजीवस्येति । तन्निरूपणानन्तरं मनोवेगेन पृष्टो भगवानाह। पवनवेगधर्मग्रहणकारणम् । ___पाटलिपुत्रे पुरे परपुराणप्रतिव्यूहवेषेण गत्वा तत्पुराणासारदर्शनं कथितं भगवता। श्रवणानन्तरं हृष्टो मनोवेगः। तं प्रणम्य स्वपुरं गच्छन् सन् सुखमागच्छता पवनवेगेन दृष्टः । तदनु हे मित्र, मां विहाय क्व गतोऽसि । सर्वत्रावलोकितोऽसि । दर्शनाभावे ऽत्राहमागतः । इति भणिते मनोवेगेनोक्तम् । भरतस्थानजिनालयान् पूजयितुं गतः। पूजयित्वा गमनसमये बहुशिवालयविष्णुगृहब्रह्मशालाद्यलंकृतं, एकदण्डित्रिदण्डिहंसपरमहंसशैवपाशुपतभौतिकादिलिङ्गिप्रचुरं, ब्राह्मणवेदघोषपूर्णायमानं, पाटलिपुत्राख्यं नगरं दृष्ट्वा भ्रान्त्यावलोकयन् स्थितः। ततो त्रागत इति। तेनोक्तम्-विरूपकं कृतम् । मां विहाय व गतो ऽसीति, तन्मे दर्शनीयम् । प्रातः प्रदर्श्यते यदि मम भणितं करोषि। तत्किम् । तत्र गते न विचारयित्वा मौनेन स्थातव्यम् । इति क्रियत एव । तहह्येवं भवत्विति स्वपुरं गतौ। ततो ऽपरदिने तन्नगरं गत्वा तदुद्याने स्वविमानं गुप्तं विधाय तणकाष्ठभाराकान्तौ सालंकारौ तन्नगरपूर्वगोपुरस्थितब्रह्मशालां वितण्डावादपूर्वकं धर्मपरीक्षार्थ गत्वा भेरीरवपूर्वक मनोवेगः सिंहासने उपविष्टः। भेरोरवेणागतैविविष्ण्वादिविकल्पेन नमस्कारपूर्वकं, कस्मादागतो, कस्मिन् शास्त्र परिचयो ऽस्तीत्युक्ते, न कस्मिश्चिदित्युक्ते, तहि भेरीरवः सिंहासनोपवेशनं वा किमर्थम् । वादाथिना हि भेरोरवः कार्यः। वादे जित्या सिंहासने उपवेश्यम् । अस्मत्पुरे एवं रीतिः। एवं भवत्विति। तदा तस्मिन् भूमौ उपविष्टौ अकिचित्करं मत्वा। भवादशां नीचाचरणं किमिति तैरुक्ते, एतदन्यत्रापि समानम् । कथम् । बिभेमि कययितुम् । मा भैषोः। तहि भवतां मनसि दूषको भविष्यामि । ननु भोः कथं दूषकता । यतः निन्द्ये वस्तुनि का निन्दा स्वभावगुणकीर्तनम् । अनिन्द्यं निन्द्यते यत्तु सा निन्दा [ दूष्यतां ] नयेत् ॥१ पुनरुक्तं तेन । किं षोडशमुष्टिकथाकारको नरोऽत्र न विद्यते । स कीदृशः। मलयदेशे शूलगलग्रामे भ्रमरस्य पुत्रो मधुकरगतिः। कोपान्निर्गत्य परिभ्रमन् आभीरदेशं गतः। तत्र चणकराशीन् दृष्टवास्मद्देशमरीचराशय इवेत्युक्ते तत्रान्यैरस्मद्देशमुपहसत्ययम् । दुष्टो निगृहीतव्यः, इत्यष्टमुष्टीन् गृहोतः [ग्राहितः ] । स तान् लब्ध्वा परिभ्रमणं विरूपमिति पुनः स्वदेशं गतः। तत्र मरीचराशीनवलोक्याभीरदेशे चणकराशय इव, इत्युक्ते तत्रापि तथा लब्धवानिति । नैको ऽपि ईदृशोऽस्ति, कथय। पुनरुक्तं तेन । अत्यासक्तकथा न क्रियते । तैरुक्तम् । सा किंविधा। स प्राह । - रेवानदोदक्षिणतटयां सामंतग्रामे ग्रामकूटकस्य बहुधनिनो द्वे भार्ये । सुन्दरी कुरङ्गी च । सुन्दरी पुत्रमाता। दुभंगा विभिन्नगृहे तिष्ठति । स राजवचनेनैकदा मान्याखेटं पुरं गतः। इतः कुरङ ग्याः सर्वद्रव्यं जारैभक्षितम् । गृहे तन्नास्ति यद भुज्यते। कियति काले गते आगतेन बहुधनिना कुरङ्गीगृहं पुरुषःप्रेषितः। प्रभुरागतो मज्जनभोजनादिसामग्री विधातव्येति । तया चिन्तितम् । अत्र किंचिन्नास्ति । किं क्रियते। इति पर्यालोच्य सुन्दरीगृहं गत्वा भणति । हे अक्क, प्रभुरागतः । त्वया तद्भोजनादिसामग्री विधातव्येति । तयोक्तम्-स किं मम गृहे भुङ्क्ते । कुरङ्गी भणति । मम भणितं करोति । एवं भवत्वित्यभ्युपगतं तया। स आगत्य कुरङ्गीगृहं

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430