Book Title: Dharm Pariksha
Author(s): Amitgati Acharya, 
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 396
________________ धर्मपरीक्षाकथा इत्येवमादिना वचनालापेन मित्रस्य चित्तं मृदुतामानीतम् ॥छ॥ ततो ऽपरदिने ऋषी भूत्वा पश्चिमगोपुरे तत्क्रमेणोपविष्टौ । द्विजैस्तत्क्रमेण संभाषणादिके कृते न किचिद्विरुद्धम् इति प्रतिपाद्य तथैव भूमावुपविष्टे विप्रैर्गुरौ तपश्चरणकारणे च पृष्ठे नावयोगुरुरस्ति, तहि कथं तपः । कथयितुं बिभेमि । मा भैषीः । गुणवर्मणः कथा कि न क्रियते । सा किरूपा । प्रतिपादयति खगः । चम्पापुरे राजा गुणवर्मा, मन्त्री हरिः, तेनैकदा बहिर्गतेन सरोवरे शिला प्लवन्ती दृष्टा । राज्ञे कथितम् । राज्ञा ग्रहो लग्न इति प्रतिनिगृहीतः । तेनोक्तम् - ब्रह्मराक्षसोऽहम् । गच्छामीति विसर्जितः । स मन्त्रिणा स्वहृदये वैरं स्मरता स्वोद्याने मर्कटाः संगीतकं तु शिक्षिताः । कथम् । यदैव मनुष्यमवलोकयन्ति तदैव नृत्यन्ति यथा सुशिक्षितेषु । मन्त्रिणा राजा उद्यानं नीतः । तस्यैव तन्नृत्यं दशितम् । दृष्ट्वा राज्ञोक्तम्- अहो विचित्रं मर्कटानां संगीतकम् इति । तदनु मन्त्रिणा धृत्वा राजभवनं नीतः ग्रहो लग्न इति धूपः प्रदर्शितः । राज्ञोक्तम्झोटिंगोऽहं गच्छामि । तदनु विसर्जितः । स्वस्थेन राज्ञोक्तम् - सम्यग्मया दृष्टम् । किमर्थमेतत् कृतम् । मन्त्रिणोक्तम् — अश्रद्धं [अश्रद्धेयं ] न वक्तव्यं प्रत्यक्षमपि यद्भवेत् । यथा वानरसंगीतं यथा सा प्लवते शिला ॥ ३६५ इति श्रुत्वा द्विजैरुक्तम् न तादृशः कोऽपि । कथय । एकान्तग्राहिणः कथा किं न विधीयते । किविशिष्टा सा । स आह । वन्दुरवारे पुरे राज्ञो दुर्धरस्य पुत्रो जात्यन्धः । स च केनचित् प्रशंसितः सन् स्वान्याभरणानि ददाति । बहुकालेन पुत्रो ऽपोमयैराभरणैविभूषितः कृतः । उक्तं च तस्य । हे पुत्र, इमान्याम्नायागतानि देवताधिष्ठानि विभूषणानि । यो यो ऽयोमयानीति भणति स अन लकुटेन हन्तव्य इति निरूपिते स तथा करोति । न तादृशः कोऽपि । निवेदय । कथ्यते । अयोध्यापुरे वणिक् समुद्रदत्तस्य पुत्रादावां वसतौ ऋषिपार्श्वे पठावः । चतुर्दशीदिने गुरोः कुण्डिकां भतु यावद् गच्छावः, तावद्राजहस्ती स्तम्भमुन्मूल्य सर्वान् मारयन् आवयोर्मारणार्थमागतः । आपलाय्य नगरबहिरे रण्डशाखायां कुण्डिकामवलम्ब्य झम्पनमपसार्यं तत्र प्रविश्य झम्पने दत्ते पिप्पलकां दातु ं विस्मृती । तद्द्द्वारेण हस्ती प्रविष्टः । तदुभयादावां तन्मध्ये नश्यावः । स च पृष्ठे गति । यावत् षण्मासान् तत्र स्थातुमशक्तौ तद्द्द्वारेण निर्गतावावाम् । गजो ऽपि तेनैव निर्गतः । पुच्छबाल एको न निर्गच्छतीति हस्ती स्थितः । आवामृषी भूत्वा यात्रागताविति तपश्चरणकारणं भणितम् । श्रुत्वा विप्रैर्भणितम् । अहो दिगम्बरस्य वचनमसत्यम् । तेनोक्तम् — कथमसत्यम् । कुण्डिकायां प्रवेशः, तद्भारेण शाखायाः अभङ्गो गजस्यापि प्रवेशः, उभयोः पलायनं, गजस्य पृष्ठतः प्रापणं, षण्मासान् उभयोनिर्गमनं, गजबालस्यानिर्गमः सर्वं विरुद्धम् । भवत्पुराणे किमीदृशं नास्ति । नास्ति, यद्यस्ति तर्हि कथय । कथ्यते । तद्यथा 1 ब्रह्मा लोकं कृत्वा नारायणस्य हस्ते रक्षणार्थं प्रतिष्ठाप्य भिक्षार्थं गतः । विष्णुना हरभयाद् frलितो लोकोऽनुगत्वात सीझाडावस्थितागस्त्यं दृष्ट्वोक्तम् । लोकरक्षणार्थं मया क्व प्रविश्यते । मुनिनोक्तम्- अतसीशाखामवलम्ब्य कुण्डिका तिष्ठति । तत्र प्रविश । प्रविष्टः । तत्र सप्तसागरान् दृष्टवान् । क्षीरसागर मध्य स्थितद्वादश योजनमध्य स्थित विस्तारवटवृक्षपत्रसंपुटमध्ये सुप्तः । भिक्षां गृहीत्वा आगतो ब्रह्मा तमपश्यन्नितस्ततो ऽवलोकयन् अगस्त्यं दृष्ट्वा पृष्टवान् - 'भगवता हरिदृष्ट इति' । मुनिनोक्तम् - कमण्डलुमध्ये ऽवलोकय । ततः षण्मासान् विलोक्य तत्र सुप्तो दृष्टः । तदुदरे तिष्ठतीति ज्ञात्वा कथं प्रविश्यत इति यावच्चिन्तयति तावत्तेन जम्भः कृतः । तदवसरे प्रविश्य हरिर्नाभौ स्थितः । कमलनारुच्छिद्रेण लोकं निःसार्य स्वस्य निर्गमने सर्वाङ्गं निर्गतम् । मुष्ककोशो

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430