Book Title: Dharm Pariksha
Author(s): Amitgati Acharya, 
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 407
________________ ३७६ पाश्वकीतिविरचता ___एवं भगिनीसंसर्गोऽपि भवेत् ब्राह्मणानामेकपुरुषसंभवत्वात् ब्राह्मण्या इति। ततोऽपि ज्ञायते योनिरपि न ब्राह्मण इति। अन्यच्च । शूद्रा एव नमस्करणीया न च ब्राह्मणाः। कुतः। पादयोनं क्षरणात । झानम् अपि न ब्राह्मणः। तस्य क्षत्रियादिष्वपि वर्शनात। शौचाचारोऽपि न ब्राह्मणः । स्मृतेः प्रामाण्यात् । आरम्भे वर्तमानस्य ब्राह्मणस्य युधिष्ठिरः । "हिंसकस्य कुतः शौचं मैथुनाभिरतस्य च ॥ इति वचनात ज्ञायते शौचाचारोऽपि न ब्राह्मण इति । कि च तस्य साधारणत्वात सर्वेऽपि ब्राह्मणाः स्युः। तपो ब्राह्मणश्चेत् सिद्धसाधनम् । कुतः तपोमूलत्वादिष्टार्थसिद्धेः। संस्कारोऽपि न ब्राह्मणः । गर्भाधानं मासे भवति । पुंसवनं चतुर्मासेषु, उत्पन्ने नवमे मासे जातकर्मादि प्रसिद्धम् । उत्तानं दशमे दिने नामकरणं प्रसिद्धम् । परिनिष्क्रमणं गृहादबहिनिष्कासनम् । आयुष्म वयः (?) मासे अन्नप्राशनं प्रसिद्धम् । चौलोपः मुण्डनम् । उपनयनं विदितम् । समावर्तनम् अध्ययनादि शिक्षा। पाणिग्रहणं प्रतीतम् । यज्ञो विदित एव। दहनं मृते सति शरीरप्रज्वलनम् । एतेषां षोडशसंस्काराणां साधारणत्वात् । तथा चोक्तम् । न शौचाविशरीरेण जातिजीवकूलेन च । तपसा ज्ञानयोन्या च संस्कारनं द्विजो भवेत॥ तस्मात् ब्राह्मणो ब्रह्मचर्येण यथा शल्येन शाल्यिकः । अन्यथा नाममात्रं स्यात् इन्द्रगोपककीटवत् ।। इति । ब्राह्मणजातेरभावात् कथं तन्मुखेन पितरस्तृप्यन्ति । अनेकात्मकत्वात् । व्यवधानाच्च । इति शतधा जित्वा प्रतिमाभासुरः स प्रविकसितमुखकमलः मनोवेगः तिष्ठन् ब्राह्मणानां पुरतः पवनवेगेन भणितः। हे मित्र, तव प्रसादेन संसारसमुद्रस्तीर्णः । स मम त्वमेव परमबन्धुः । इदानी जैनवतानि प्रयच्छ। तेनोक्तम् । अहमसमर्थः । मदीयो गुरुस्तिष्ठति उज्जयिन्याम् । तत्र गच्छाव इति कटककटिसूत्रकुण्डलाद्यलकृतौ निजवेषेण स्थितौ खगौ द्विजादिभिर्भणितौ। को युवामिति । ताभ्यां स्वस्वरूपं प्रतिपादितम् । तदनु तत्रत्यैद्विजादिभिः साधं समवसृति गतौ। जिनं दृष्ट्वा स्तूत्वोपविष्टौ। तदनु द्विजादिभिः कैश्चित्तपश्चरणं कैश्चिद् व्रतानि गृहीतानि। तदनु पवनवेगेन अष्टाङ्गविशिष्टसम्यक्त्वस्य पञ्चाणुव्रतानां त्रयाणां गुणवतानां चतुर्णा शिक्षावतानां एकादशश्रावकनिलयानां चतुर्णां ब्रह्मचर्याद्याश्रमाणां निःशङ्काद्यष्टकथानां पञ्च व्रतकथानां चतुर्विधश्रावकधर्मस्य तत्कथानां च स्वरूपं ज्ञात्वा नक्तभोजनविरामस्वरूपं तत्फलेनात्रैव केनचित फलं च प्राप्तमिति पृष्टो मुनिः प्राह। अत्रैव भारते मेवाडदेशे मध्यचित्रकूटपुराधीशो नरेश्वरः । तन्मन्त्री श्रीपालः अधिगतसम्यग्दृष्टिः। तदङ्गना धनवती। सापि तथा। एवं सखेन तिष्ठतोस्तयोरेकस्मिन् दिने ऽस्तमनवेलायां तद्गहजागरिकचाण्डालपत्नी ग्रासार्थमागता। तस्मिन्नेवावसरे श्रेष्टिपुत्रेणागत्य माता भोजनं याचिता। तयोक्तम् । पुत्र रात्रौ नोचितम् । महताग्रहेण याचिते ऽपि न दत्तम् । तदनु चाण्डालवनितया पष्टा। स्वामिनि. किमित्यस्य भोजनं न बत्तम । तयोक्तम। अनेन संसारे

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430