Book Title: Dharm Pariksha
Author(s): Amitgati Acharya, 
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 395
________________ ३६४ पाश्वकीतिविरचता करोति, तावत्किमपि नश्यति । भयचकितचित्तेन दक्षिणभुजे ऽवलोकिते ब्रह्मा उत्थितः। वामभुजावलोकनेन वासुदेवो जातः । त्रयो ऽपि कियत्कालं यावत्तिष्ठन्ति स्त्रीरूपाभावे ऽनङ्गाग्निना संतप्ता बभूवुः। ततो वासुदेवेन स्त्रीरूपं खटिकया लिखितम् । तस्यां ब्रह्मणा चैतन्यं प्रापितम् । तदनु सा नग्नरूपेणोत्थिता । महेश्वरेण वस्त्रं दत्तम् । हस्तश्च धृतः। ततो वासुदेवेन भणितम्मया लिखिता। अहं स्वामी। ब्रह्मणोदितम्-मया चैतन्यं प्रापिता। अहं स्वामी। इति झगडके सति त्रिभिरितस्तत आकृष्टा । त्रस्त्रिशत्कोटिदेवैर्भणितम-विचार्य एकेन स्त्री कर्तव्येति। कथं विचारः। सुरैरभाणि-येन प्रथममूत्पादिता स पिता । येन चैतन्यं प्रापिता स माता। वस्त्रदाता वल्लभ इति शिवाय दत्ता। तया सह सुखेन स्थितं शङ्करं दृष्ट्वा पुनरितराभ्याम् अमर्षात् युद्धे कृते सा लज्जया जलं बभूव । नदीरूपेण वोढं लग्ना। सा नदो गङ्गा जाता। पुनस्ते मैत्री गताः। तस्या विस्तारं दृष्ट्वा त्रयो ऽपि तदनुभवनाथ पूर्ववद् विष्णू रूपं, ब्रह्मा चैतन्यं, महेश्वरो वस्त्रादिकं करोति । तत इदं सूत्रम् कार्य विष्णुः क्रिया ब्रह्मा कारणं तु महेश्वरः। एकमूर्तित्रयो भागा ब्रह्मविष्णुमहेश्वराः॥ ततो बहुजनसंपूर्णो जातो लोकः । एवं लोकोत्पत्ति कृत्वा बहुकाले गते हरिब्रह्मणोझगडको जातः । अह (ह) महं महानिति । ततो महेश्वरेणोक्तम्-कोलाहलो न विधेयः। एको मम शिरो ऽवलोक्यापरः पादावलोक्य प्रथममागच्छति स महानिति। तदनु शंकरः ऊर्ध्वलोके शिरः, मध्यलोके लिङ्गम, अधोलोके पादौ विधाय स्थित्वा मूषिकप्रमाणतनुः स्थूलपुच्छः पृष्ठे रेखात्रयालङ्कृतः खडिहलकरूपेणोपरि गतः। महता कष्टन यावन्नाभिप्रदेशं गच्छति तावत्केतकीमागच्छन्तों दृष्टवा कस्मादागतासोति ब्रह्मणा तयोक्तम्-महेश्वरमस्तकस्थितपिङ्गलजटायाः सकाशात् । कियत्कालं निर्गता । दिव्यषण्मासान । ततस्तेन प्रार्थिता । अहमनेन पिङलजटायाः सकाशादानोतेति भणितव्यम् । एवमस्त्वित्यभ्युपगतं तया। ततो व्याघटितो ब्रह्मा आगत्य भणति-तव शिरो दृष्ट्वा तत्र पिङ्गलजटायां स्थिता केतकी आनीतेति पृष्टया तयाप्येवमित्युक्तम् । ततः शिवो ज्ञात्वा मौनेन स्थितः। हरिवंराहरूपेण जङ्गप्रदेशं गतोऽग्ने गन्तुमशक्तः सन्नागत्य भणति-शिव, तव जङ्गपर्यन्तं गतोऽहमिति । ततस्तुष्टेन शरेण भणितं वासुदेवाय त्वं राजपूज्यो भव श्रियालंकृतश्च । ब्रह्मणः प्रतिपादयति-त्वं मृषाभाषी सूत्रमिदमसत्यं कृतवान् । तच्च किम् सत्यादुत्पद्यते धर्मो दयादानेन वर्धते। क्षमया स्थाप्यते धर्मः क्रोधलोभाद्विनश्यति ॥ अतस्त्वं भिक्षाभाजनं पूजारहितश्च भवेति शापितः। केतक्यपि मृषाभाषिणोति मम मस्तकारोहणं मा करोदिति निषिद्धा किल लिङ्गपुराणे । अतो महेश्वरस्योर्वलोके शिरः मध्यलोके लिङ्गम् अधोलोके पादौ किल पूज्यौ। हे मित्र, यद्येते सर्वज्ञा महेश्वरस्तयोर्गुरुलघुत्वं कुतो न जानाति । तावप्यात्मनोगंमनाशक्तित्वं न जानीतः इत्येतेषां विरुद्धम्। अनेन निरूपितम्-अतो मया एतेषां नमनं विहाय एवंविधस्य नतिः क्रियते । किविशिष्टस्य । पातालं येन सर्व त्रिभुवनसहितं सासुरेन्द्रामरेन्द्र भग्नं स्वैः पुष्पबाणः भयचकितबलं स्त्रीशरण्यैकनिष्ठम् । सो ऽयं त्रैलोक्यधीरः प्रहतरिपुबलो मन्मथो येन भग्नस्तं वन्दे देवदेवं वृषभहरिहरि शङ्करं लोकनाथम् ॥

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430