Book Title: Dharm Pariksha
Author(s): Amitgati Acharya, 
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 393
________________ पाश्वकीर्तिविरचिता नैकदा सौरीपुराधीशान्धकवृष्णेः पुत्रों कुन्तीं स्नान्तीं दृष्ट्वा सेविता । यो ऽदत्तां कुन्तीं गृह्णाति स किं दत्तां छायां त्यजति । पुनरभाणि - एवं चेद्यमसमीपं ध्रियते । तेनोक्तम्-एवमस्तु । स नैष्ठिकः ब्रह्मचारीति । यमपुरीं गत्वा तत्समीपे तां धृत्वा तीर्थयात्रां गतौ मातापितरौ । इतः छाया सयौवना जाता । तद्रूपं दृष्ट्वा यमो ऽस्य सूत्रस्यार्थं सत्यं कृतवान् । ३६२ संसर्गाद् दुर्बलां जीर्णां भ्रश्यन्तीमप्यनिच्छतीम् । कुष्ट रोगिणीं काणां विरूपां क्षीणविग्रहाम् ॥ निन्दितां निन्द्यजातीयां स्वजातीयां तपस्विनीम् । बालामपि तिरची स्त्री कामी भोक्तुं प्रवर्तते ॥ इति । तदनु तेनासक्तचित्तेन सा स्वभार्या कृता । स ब्रह्मचारीति प्रसिद्धः । जनापवादभयेन तां दिवा गिलित्वा रात्रौ उद्गील्य तथा सह भोगान् सेवते । स दिनं प्रति गङ्गां स्नानार्थं गच्छति । तत्र तां लतागृहे निधाय स्नातुं प्रविष्टः । अत्रान्तरे सा पवनेन अग्निना च दृष्टा । तदनु पवनो ऽग्निना भणितः । यथास्या मम च मेलापको भवति तथा कुरु । तेनोक्तम् - किमेवं शक्यते । यमः प्रचण्डः । अग्निबंभाण-दृष्टे सति प्रचण्डो ऽन्यथा किम् ? पवनेन तथा तयोः संयोगो Sकारि । रत्यवसाने तयोक्तम् — हे अग्ने, यमस्य निर्गमनवेला बभूव । गच्छ स्वस्थानम् । तेनोक्तम् - त्वां विहाय गन्तुं न शक्नोमि । तया स गिलितः । तदनु यमेन निर्गत्य सा गिलिता । सा उदरमध्ये उद्गील्य तेन सह क्रीडां करोति । ततो ऽह्यग्न्यभावे द्विजानां होमादिकं नष्टम् । तदभावे त्रैलोक्यस्य संतापो ऽभूत् । देवः ध्यानेनावलोकिते सति कारणं ज्ञातं संतापस्य । तदनु पवनः पृष्टः । तेनाभाणि । मयाग्निशुद्धिर्नावगम्यते । तथापि सर्वे आमन्त्रिताः । सर्वे ऽपि तद्गृहं गताः । तेन चोपवेशिताः । पादप्रक्षालनादिके कृते सर्वेभ्य एकैकम् आसनं दत्तम् । यमायासनत्रयम् । तेन कारणे पृष्टे पवनेनोक्तम् - छायामुद्गिल । तत उद्गिलिता । तस्या अप्युक्तम् - अनलमुद्गिलेति । तथा सो ऽप्युद्गिलितः । ततस्तस्याः कूर्चश्मश्रुकेशा उपप्लुष्टाः । तत्प्रभृति वनितास्तद्रहिता बभूवुः । अग्नि दृष्ट्वा गदां गृहीत्वा तं मारयितुमुत्थितो यमः । सभयान्नश्यन् सन् सर्वगतो ऽभूत् । एवं सवं विद्यते न वा । तैरुक्तम् - सत्यं विद्यते । यमेनाग्निर्न ज्ञातः । किं तस्य सर्ववेदित्वं नष्टम् । द्विजैरुक्तम् - न । तर्ह्यस्यापि गुणा मा नश्यन्त्विति जिते भवतु मार्जारस्तथाविधः, गृहीतो ऽस्माभिः । इदं धनुरिमे गदे विक्रीयन्ते नो वा । किरातेनोक्तम्विक्रयन्ते । धनुषः किं मूल्यं तथा गदायाश्चेत्युक्तम् । किरातेनोक्तम् प्रत्येकं सुवर्णद्वादशसहस्रमिति । किमेतेषां सामर्थ्यम् । कथ्यते मया । अनेन धनुषा इमे बाणा विसर्जिताः सन्त शतयोजनानि गत्वा शत्रु निर्मूलयन्ति । इमे गदे महापर्वतान् चूर्णयत इति । द्विजैर्भण्यते - एवं सामर्थ्यपेताः पदार्थाः कस्य विकाराः । किरातेन भव्यते-मया मार्गे गच्छता अरण्ये स्वयमेव मृतो महामूषिको दृष्टः । तयोरस्थ्नामिमे विकारा इति । केनचिद् द्विजेन भणितम्-त्वदीयं वस्त्रं गतं येन कौपीनं परिधायागतो ऽसि । तेनोद्यते - अहं कोटीभटो ऽमीषां विक्रयणार्थमागच्छन् मार्गे चौरमुषितः । इति श्रवणादनु सर्वैरुपहसितम् - एवंविधाः पदार्थाः स्वनिकटे सन्ति स्वयं कोटी भटस्तथापि मुषितः इति । स बभाण - किमिति हसनं विधीयते । तैरभाणि - मूषिकरस्थनामायुधानि कि भवन्ति । कोटीभटः कि चौरेर्मुष्यते । स बभाण - किमिदमेव कौतुकम् । भवत्पुराणे किमेवंविधं कौतुकं नास्ति । किमेवमस्ति । यद्यस्ति तहि ब्रूहि । एवमस्तु । प्रोच्यते । शृणुत ।

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430