Book Title: Dharm Pariksha
Author(s): Amitgati Acharya,
Publisher: Jain Sanskruti Samrakshak Sangh
View full book text
________________
धर्मपरीक्षाकथा
३७३
मया भार्यया सह भणितम् । आवयोर्मध्ये यो भणति स पश्चापूपान् सघृतशर्करान् ददाति इति । प्रतिपन्नमुभाभ्याम् । तदनु चौरो दम्पती दुराग्रहग्रस्ताविति संचिन्त्य वस्त्राभरणादिकमाकृष्य मम भार्याकटिस्थं वासः यावद् गृह्णाति तावत्तयोक्तम् । चौर सवं गृहीत्वा यास्यति । किं मौनेन तिष्ठसि । मयोक्तम् । जल्पितं त्वया। पश्चापूपान् देहीति हस्ते धृता। तदनु स गतः। सर्वैः भणितम् । पहिलो ऽयम् । चौरबन्धुरिति । चतुर्णां मूर्खत्वमवधार्य सर्वैरुक्तम् ।
'आहारनिद्राभयमैथुनानि समानमेतत्पशुभिनंराणाम् ।
ज्ञानं नराणामधिको विशेषः ज्ञानेन होनाः पशुभिः समानाः॥' इति वचनाद्यूयं पशवः । युष्माकं जयपराजयव्यवस्थाम् इन्द्रो ऽपि कर्तुमसमर्थः। कुतो वयमिति श्रुत्वा द्विजैर्भणितम् । किमोदग्विधाः सन्त्यत्र । सर्वे विचारका एव । कथयात्मीयं वृत्तान्तम् । स प्राह।
गुर्जरदेशे वंशगृहनगरे आविको मोहूणः। तदपत्ये आवाम् । एकस्मिन् दिने अजारक्षणे गतौ । अटव्यां पक्वफलसंभृतो वृक्षः कपित्थो दृष्टः । तत्फलास्वादनलम्पटाधावां चटितुमसमर्थो । मयोक्तम् । हे भ्रातः, त्वमजा गृहोत्वा गच्छ। अहं फलानि गृहीत्वागच्छामि। ततो गते तस्मिन् मया स्वशिरश्छेदनं कृत्वा वृक्षस्योपरि निक्षिप्तम् । तत् फलानि भक्षयति । अधः स्थितमुदरं तप्ति बिति । उदरपूर्ती सत्यां कियन्ति तानि भूमौ निक्षिप्य कबन्धस्योपरि पातितं शिरः लग्नं च । फलानि गृहीत्वा यावद्गच्छामि तावदयमेकस्मिस्तस्तले सुप्तो दृष्टः। उत्थापितः पृष्टश्च । क्वाजा इति । अहं निद्राभिभूतः सन् सुप्तः कथं जानामि। मयोक्तम् । तहि फलानि भक्षय। पश्चादवलोक्यन्ते । तथा कृते दर्शनाभावाद गृहं गन्तं भीती श्वेताम्बरवेषान्वितो देशान्तरं गच्छावः इति पर्यालोच्य भ्रमितुं लग्नाविदानीमत्र समायाती। तपोहेतुर्भणितः। श्रुत्वा द्विजैरुक्तम् । अहो विचित्रं तपस्विनो वचनमसत्यम् । कृतकतपस्विनोक्तम् । कथमसत्यम् । शिरश्छेदने जीवनम् । तथा शिरसा तेषु भक्षितेषु उदरपूर्तिः पुनस्तत्संधानं च विरुद्धम् । किं भवन्मते एवंविधं नास्ति । अस्ति चेद् ब्रहि । तत्कथ्यते। कैलासे महेश्वरस्याराधनं तपश्चरणपूर्वक रावणेन कृतम् । तथापि हर्ष न गच्छति । तदनु नर्तनं कुर्वन् मध्ये मध्ये एकमेकं शिरश्छित्त्वा तत्पादावर्चयति स्म। एवं सर्वेष्वपि तेषु ढोकितेषु तुष्टः शङ्करः याचितं दत्तवान् । रावणः स्वशिरसां संधानं कृत्वा स्वपुरं गत इति । किमेतत्सत्यमसत्यं वा । सत्यम् । एवं तहि रामबाणेन मरणं कथं जातम् । तहि तस्य दशानां शिरसां संधानमुचितम् । अस्मदीयस्यकस्येति कथं श्लाघ्यम् । तथा चापरा कथा।
कस्मिश्चिद् वामे कश्चिद् ब्राह्मणः। तत्पुत्रः शिरोमानं दधिमुखः। पित्रेकदा द्विजाः आमन्त्रिताः। तैश्च भुक्त्वा गच्छद्भिः दधिमुखस्याशीर्वादो दत्तः। तेनोक्तम् । धन्यो ऽहम् । मम गृहे विप्रेभुक्तमिति । तैरुक्तम् । तव गृहं नास्ति । कथं धन्यो ऽसि । तेनोक्तम् । धन्यो ऽहम् पितगृहं पुत्रस्य किं न भवति । तैरुक्तम् । न । 'गेहिनी गृहमुच्यते' इति वचनात् । तदनु दधिमुखेन पिता भणितः। मम विवाहं कुविति । महत्याग्रहे कृते पित्रा विवाहितः। तदनु भोगवान् जातो द्रव्यक्षयं करोतोति पित्रा निर्धाटितः। स चात्मानं शिक्ये निक्षेपयित्वा स्वब्राह्मण्या ग्राहयित्वा देशान्तरं गतः । स चैकदैकं पुरं प्रविश्य द्यूतस्थानं दृष्ट्वा हृष्टः। आत्मानं तत्रैव निधाप्यावलोकयन् स्थितः । सा कापि गता। तदवसरे उभयो तकरयोः कलहो जातः । एकैनैकस्य शिरः खड्गेनाहतं पतितम् । तवनु कबन्धे दधिमुखेनात्मीयं शिरः संधितमिति । तथापरापि।

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430