Book Title: Dharm Pariksha
Author(s): Amitgati Acharya, 
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 403
________________ ३७२ पाश्वकीर्तिविरचिता पर्यालोचितम् । मुनिः प्रष्टव्यः। तेन यस्मै दत्ता तस्मै भवत्विति। मुनि पृष्टवन्तः कस्मै धर्मवृद्धिर्दत्तेति । मुनिनात्मनो रक्षणार्थ योऽतिमूखः तस्मै दत्तेति भणित्वा गतम् । ते ऽप्यहमहं मूर्ख इति वादेन नगरमागताः। तत्र सभां मेलयित्वा अस्माकं विवादः स्फेटनीय इति मद्रापणे दत्त सभास्थः को विवाद इति पृष्टाः। कथिते स्वरूपे मध्यस्थैरुक्तम्-आत्मीयमात्मीयं मूर्खत्वं प्रतिपादयत । तत्रैकेनाभाणि । एकस्मिन् ग्रामे ऽहं ग्रामकूटकः । मम द्वे भायें स्तः। एकस्यां रात्रौ एकस्मिन् एव शयनतले भार्ययोर्मध्ये उत्तान उभयोरुपरि हस्तौ निधाय सुप्तः । तावदाखुना वति गहीत्या गच्छता मम लोचनस्योपरि पातिता वतिः। तच्छिखया दह्यमाने ऽपि लोचने उभयोर्मध्ये कस्यांचिदुपरि स्थितं हस्तम् आकृष्यापसार्यते चेत् प्रेमभङ्गो भविष्यतीति मत्वा सहमान: स्थितः । दुर्गन्धात् ज्ञात्वा ताभ्यां स्फेटिता। तदनु स्फुटिते लोचने । सर्वैविषमलोचन इति नाम कृतम्। एतन्मे मूर्खत्वम् । परः प्राह । तन्मौख्यं शृण्वन्तु । एकस्मिन् ग्रामे अहं मुख्यभूतपुरुषः। ममापि द्वे भायें। खरी रिछो च। ताम्यां यथाक्रम मम दक्षिणवामपादयोनवनीतेन मदनं विधीयते। एकस्मिन दिने खरी दक्षिणपादमर्दनं कृत्वा जलानयनाथं गता प्रविष्टा। अनु रिछया वामपादं दक्षिणस्योपरि निधाय गता। आगतया खर्या दृष्ट्वा मम पादस्योपरि स्वकीयं पादं निक्षिप्य निकृष्टा गतेति कोपात मसलेनाहत्य मोटितः पादः । तत्रागतया रिछया द्वितीयोऽपि भग्नः । तदनु सर्वेः खञ्ज इति नाम कृतम् । तृतीयो ब्रूते । मम मूर्खत्वमवधारयन्तु। एकस्मिन् ग्रामे कूटकपुत्रो ऽहम् अपरस्मिन् ग्रामे ग्रामकूटपुत्री परिणीता मया। एकदा स्वग्रामात् श्वशुरग्रामं गच्छतो मे माता बुद्धिर्ददौ। कथं तत्राभिमानित्वमवलम्बनीयम् । हे पुत्र, भोक्तमागच्छत्युक्ते वचनेनैकेन न भोक्तव्यम् । भोजने च स्तोकं भोक्तव्यं स्तोकं त्यजनीयमिति । एवं करोमीति गतोऽहं श्वशुरनामम् । सन्मानपूर्वकं गृहं प्रविष्टः। अपराहवेलायां श्वश्वा भोक्तुमाहूतः। मयोक्तम् । क्षुधा नास्ति । द्वितीये दिने तथा चोक्ते महत्याग्रहे कृते। क्षुधा नास्तीति स्थितः। जामाता न भुङ्क्त इति श्वश्रूः सचिन्ताभूत् । अनु शालितण्डुलान् पिठरकस्थितोदकमध्ये निक्षिप्य मम भार्यायाः तथा प्रतिपादितम् । यदैव तव भर्तुः क्षुधा भवति रात्रौ तदैव रन्धित्वा भोजनं प्रयच्छेरिति । एवं करोमीति तया मे मञ्चकस्याधो निक्षिप्ता पिठरी। रात्री क्षुधया मे प्राणेषु गच्छत्सु सत्सु प्रिया प्रस्रवणं कतु बहिर्गता। तदैव मया तण्डुलान् गृहीत्वा मुखं भृतम् । चर्वणे क्रियमाणे आगतया भायंया भणितं किं कुर्वन् तिष्ठसीति । गदितोऽपि तवाहं वक्तु नायातीति तूष्णी स्थितः। तदनु तया मे मुखं दृष्ट वोक्तम् । नष्टाहं, भर्तुळधिरभूत्।मात्र निरूपितम्। महाकोलाहलो ऽभूत् । तदा लज्जया तण्डुला मया न गिलिताः। प्रातरहं कस्मैचिद् वैद्याय दर्शितः । श्वश्रवा तस्य दशितोऽहम् । तेन मे ओष्ठयोः पिष्टमवलोक्य तण्डुलचर्वणं जानतापि भणितम । विषमो व्याधिः । एतत्पुण्यादहमागत इति यथेष्टं द्रव्यं गृहीत्वा मे कपोलौ भेदयित्वा तण्डुलानाकृष्य जनानां प्रदर्शिताः। भणति च। अयं तण्डुलव्याधिः। तदनु अहं गल्लस्फोटको जातः। इति मदीयं मूर्खत्वम् । चतुर्थो बभाण । इदानी मे मूर्खतामवधारयन्तु । एकस्मिन् ग्रामे अहं पामरः सुखेन स्थितः । एकस्यां रात्रौ भायंया सह जल्पन स्थितः । तदवसरे ऽन्तश्चौरः प्रविष्टः। स यावदावां निद्रा कर्वस्तावदसंबलः स्थितः। वचने जाताल

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430