Book Title: Dharm Pariksha
Author(s): Amitgati Acharya, 
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 402
________________ धर्मपरीक्षाकथा ३७१ अभिनन्दनः, सुमतिः, पद्मप्रभः, सुपाश्वः, चन्द्रप्रभः, पुष्पदन्तः, शीतलः, श्रेयान्, वासुपूज्यः, विमलः, अनन्तः, धर्मः, शान्तिः, कुन्थुः, अरुः, मल्लिः, मुनिसुव्रतः, नमिः, नेमिः, पाश्वः, वर्धमानश्चेति । एते सर्वे मुक्तिगामिनः । द्वादश चक्रवतिनः। ते च के। भरतः, सगरः, मघवा, सनत्कुमारः, शान्तिः, कुन्थुः, अरुः, सुभौमः, पनः, हरिषेणः, जयसेनः, ब्रह्मदत्तश्चेति । एषां मध्ये अष्टौ मुक्ति गताः । ब्रह्मदत्तसुभौमौ सप्तमनरकं गतौ। मघवासनत्कुमारौ स्वगं गतौ। नव बलदेवाः । विजयः, अबलः, सुधर्मः, सुप्रभः, सुदर्शनः, नन्दी, नन्दिमित्रः, रामः, पद्मश्चेति । अष्टौ मुक्तिगामिनः । पनः ब्रह्मस्वगं गतः । नव वासुदेवाः। त्रिपिष्टः, द्विपिष्टः, स्वयंभूः, पुरुषोत्तमः, पुरुषसिंहः, पुण्डरीकः, दत्तः, नारायणः, कृष्णश्च । तेषां मध्ये एकः सप्तमं नरकं, पञ्च षष्ठं नरकं गताः । एकः पञ्चमनरकं गतः । एकश्चतुर्थम् अपरस्तृतीयम् । एते कथमाराध्याः। नव प्रतिवासुदेवाः। अश्वग्रीवस्तारकः, मेढको, मधुकैटभः, निशुम्भः, बलिः, प्रहरणः, रावणः, जरासन्धश्चेति । एते स्वकालवासुदेवाः यत्र नरके गताः इति त्रिषष्टिशलाकाः पुरुषाः । एकादश रुद्रा भवन्ति । के ते। भीमः, बलिः, जितशत्रुः, रुद्रः, वैश्वानरः, सुप्रतिष्ठः, अजितारिः, पुण्डरीकः, अजितधरः, अजितनाभिः, प्रतालः, सात्यकिः, पुत्रश्चेति। एते निर्ग्रन्थलिङ्गधारिणः। दशमपूर्वाध्ययने भग्ना भवन्ति । एतेषां मध्ये द्वौ सप्तमनरकं गतौ। पञ्च षष्ठं, एकः पञ्चम, द्वौ चतुर्थम् अपरः तृतीयं गतः। इति कथमेते बन्धाः । तत्राजितनाथकाले भरतक्षेत्रविजयार्धपर्वतदक्षिणश्रेणौ रथनूपुरचक्रवालपुराधीशपूर्णधनस्य पुत्रस्तोयदवाहनः । तस्मै पूर्वभवस्नेहेन भीमराक्षसनामव्यन्तरदेवेन लङ्काद्वीपमध्ये स्थितं लङ्कापुरं, राक्षसी विद्या, नवमुखकण्ठाभरणं च दत्तम् । ततस्तस्य तोयदवाहनस्य कुलं राक्षसकुलं जातम् । तत्संताने बहु गतेषु उत्पन्नो धवलकोतिः । तेन विजयापर्वतदक्षिणश्रेणिमेघपुराधीशातीयस्य पुत्रः श्रीकण्ठः । तनुजा देविला परिणीता। तेन च श्रीकण्ठाय वानरद्वोपो दत्तः वानरी विद्या च। ततस्तस्य श्रीकण्ठस्य श्रीकुलं वानरकुलं जातम् । रावणो राक्षसकुले उत्पन्न इति राक्षसो भण्यते। न निशाचरः। सग्रीवादयस्तु वानरकुलोद्भवाः। न तु स्वयं वानराः। ते च आकाशगामिनीप्रभावेण लां गताः। न त सेतं बन्धयित्वेति । अन्यत सर्व पद्मचरित्रे ज्ञातव्यम। इति स्वसमयप्रसिद्धरामायणनिरूपणप्रवणैर्वचनैस्तद्वंशोत्पत्ति प्रतिपाद्य मित्रस्य चित्तं प्रलाद्य परस्मिन दिने श्वेताम्बरवेषेण गत्वा ऐशान्यां दिशि गोपूरे द्वारेण तत्क्रमेणोपवेशने संभाषणे च जाते सूत्रकण्ठेरुक्तम् । को गुरुः। कि तपश्वरणकारणम् । श्वेतपटेनोक्तम्-नावयोर्गुरुरस्ति । तद्विना कथं तपः । कि रजकचन्दनकथा न विधीयते । सा किरूपा । स आह । उज्जयिन्यां राजा शान्तनामा। तस्य महान् दाहज्वरो जातः । वैद्यप्रतिकारे उल्लंधिते राज्ञा यो मदीयं ज्वरमपहरति तस्मै अभीष्टं दीयते। आज्ञा दत्ता वणिजैकेन धृता। तदनु वणिक शीतलद्रव्यावलोकनार्थ प्रदेशं गतः। तत्र वस्त्राणि प्रक्षालयता रजकेन नदीरयेणागतं गोशीर्षचन्दनकाष्ठमिन्धनार्थमाकृष्य तटे निक्षिप्तम् । भ्रमता तेन वणिजा दृष्टम् । ज्ञात्वा तस्मै काष्ठभारमेकं दत्त्वा संगृह्य तत्सामर्थ्येन राज्ञो ज्वरमपसार्य राज्ञो ऽभीष्टं गृहीतमिति । किमीदृशः कोऽपि विद्यते । कथय । किं मूर्खचतुष्टयकथाकारको नरो न विद्यते। तत् कीदृशं मूर्खचनुष्टयम् । कथ्यते मया। चतुभिः पुरुषैर्मार्गे गच्छद्भिः संमुखमागच्छन् मुनिदृष्टः। तदनु नमस्कारे कृते मुनिना वारमेकं धर्मवृद्धिरस्त्वित्युक्तम् । चतुभिरपि कियदन्तरं गत्वा चिन्तितम्। अहो,.अस्माभिः सर्वेनमस्कारे कृते मुनिना एकैव धर्मवृद्धिर्दत्ता। सा कस्यात्र भवति। मम ममेति झगटके कृते सर्वेः

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430