________________
धर्मपरीक्षाकथा
३७१
अभिनन्दनः, सुमतिः, पद्मप्रभः, सुपाश्वः, चन्द्रप्रभः, पुष्पदन्तः, शीतलः, श्रेयान्, वासुपूज्यः, विमलः, अनन्तः, धर्मः, शान्तिः, कुन्थुः, अरुः, मल्लिः, मुनिसुव्रतः, नमिः, नेमिः, पाश्वः, वर्धमानश्चेति । एते सर्वे मुक्तिगामिनः । द्वादश चक्रवतिनः। ते च के। भरतः, सगरः, मघवा, सनत्कुमारः, शान्तिः, कुन्थुः, अरुः, सुभौमः, पनः, हरिषेणः, जयसेनः, ब्रह्मदत्तश्चेति । एषां मध्ये अष्टौ मुक्ति गताः । ब्रह्मदत्तसुभौमौ सप्तमनरकं गतौ। मघवासनत्कुमारौ स्वगं गतौ। नव बलदेवाः । विजयः, अबलः, सुधर्मः, सुप्रभः, सुदर्शनः, नन्दी, नन्दिमित्रः, रामः, पद्मश्चेति । अष्टौ मुक्तिगामिनः । पनः ब्रह्मस्वगं गतः । नव वासुदेवाः। त्रिपिष्टः, द्विपिष्टः, स्वयंभूः, पुरुषोत्तमः, पुरुषसिंहः, पुण्डरीकः, दत्तः, नारायणः, कृष्णश्च । तेषां मध्ये एकः सप्तमं नरकं, पञ्च षष्ठं नरकं गताः । एकः पञ्चमनरकं गतः । एकश्चतुर्थम् अपरस्तृतीयम् । एते कथमाराध्याः। नव प्रतिवासुदेवाः। अश्वग्रीवस्तारकः, मेढको, मधुकैटभः, निशुम्भः, बलिः, प्रहरणः, रावणः, जरासन्धश्चेति । एते स्वकालवासुदेवाः यत्र नरके गताः इति त्रिषष्टिशलाकाः पुरुषाः । एकादश रुद्रा भवन्ति । के ते। भीमः, बलिः, जितशत्रुः, रुद्रः, वैश्वानरः, सुप्रतिष्ठः, अजितारिः, पुण्डरीकः, अजितधरः, अजितनाभिः, प्रतालः, सात्यकिः, पुत्रश्चेति। एते निर्ग्रन्थलिङ्गधारिणः। दशमपूर्वाध्ययने भग्ना भवन्ति । एतेषां मध्ये द्वौ सप्तमनरकं गतौ। पञ्च षष्ठं, एकः पञ्चम, द्वौ चतुर्थम् अपरः तृतीयं गतः। इति कथमेते बन्धाः । तत्राजितनाथकाले भरतक्षेत्रविजयार्धपर्वतदक्षिणश्रेणौ रथनूपुरचक्रवालपुराधीशपूर्णधनस्य पुत्रस्तोयदवाहनः । तस्मै पूर्वभवस्नेहेन भीमराक्षसनामव्यन्तरदेवेन लङ्काद्वीपमध्ये स्थितं लङ्कापुरं, राक्षसी विद्या, नवमुखकण्ठाभरणं च दत्तम् । ततस्तस्य तोयदवाहनस्य कुलं राक्षसकुलं जातम् । तत्संताने बहु गतेषु उत्पन्नो धवलकोतिः । तेन विजयापर्वतदक्षिणश्रेणिमेघपुराधीशातीयस्य पुत्रः श्रीकण्ठः । तनुजा देविला परिणीता। तेन च श्रीकण्ठाय वानरद्वोपो दत्तः वानरी विद्या च। ततस्तस्य श्रीकण्ठस्य श्रीकुलं वानरकुलं जातम् । रावणो राक्षसकुले उत्पन्न इति राक्षसो भण्यते। न निशाचरः। सग्रीवादयस्तु वानरकुलोद्भवाः। न तु स्वयं वानराः। ते च आकाशगामिनीप्रभावेण लां गताः। न त सेतं बन्धयित्वेति । अन्यत सर्व पद्मचरित्रे ज्ञातव्यम।
इति स्वसमयप्रसिद्धरामायणनिरूपणप्रवणैर्वचनैस्तद्वंशोत्पत्ति प्रतिपाद्य मित्रस्य चित्तं प्रलाद्य परस्मिन दिने श्वेताम्बरवेषेण गत्वा ऐशान्यां दिशि गोपूरे द्वारेण तत्क्रमेणोपवेशने संभाषणे च जाते सूत्रकण्ठेरुक्तम् । को गुरुः। कि तपश्वरणकारणम् । श्वेतपटेनोक्तम्-नावयोर्गुरुरस्ति । तद्विना कथं तपः । कि रजकचन्दनकथा न विधीयते । सा किरूपा । स आह ।
उज्जयिन्यां राजा शान्तनामा। तस्य महान् दाहज्वरो जातः । वैद्यप्रतिकारे उल्लंधिते राज्ञा यो मदीयं ज्वरमपहरति तस्मै अभीष्टं दीयते। आज्ञा दत्ता वणिजैकेन धृता। तदनु वणिक शीतलद्रव्यावलोकनार्थ प्रदेशं गतः। तत्र वस्त्राणि प्रक्षालयता रजकेन नदीरयेणागतं गोशीर्षचन्दनकाष्ठमिन्धनार्थमाकृष्य तटे निक्षिप्तम् । भ्रमता तेन वणिजा दृष्टम् । ज्ञात्वा तस्मै काष्ठभारमेकं दत्त्वा संगृह्य तत्सामर्थ्येन राज्ञो ज्वरमपसार्य राज्ञो ऽभीष्टं गृहीतमिति । किमीदृशः कोऽपि विद्यते । कथय । किं मूर्खचतुष्टयकथाकारको नरो न विद्यते। तत् कीदृशं मूर्खचनुष्टयम् । कथ्यते मया।
चतुभिः पुरुषैर्मार्गे गच्छद्भिः संमुखमागच्छन् मुनिदृष्टः। तदनु नमस्कारे कृते मुनिना वारमेकं धर्मवृद्धिरस्त्वित्युक्तम् । चतुभिरपि कियदन्तरं गत्वा चिन्तितम्। अहो,.अस्माभिः सर्वेनमस्कारे कृते मुनिना एकैव धर्मवृद्धिर्दत्ता। सा कस्यात्र भवति। मम ममेति झगटके कृते सर्वेः