Book Title: Dharm Pariksha
Author(s): Amitgati Acharya,
Publisher: Jain Sanskruti Samrakshak Sangh
View full book text
________________
धर्मं परीक्षाका
३६९
तदनु पवनवेगेन भणितम् । हे मित्र, यदि कर्णः कर्णेन निर्गतश्च न भवति, तर्हि तस्योत्पत ब्रूहि । मनोवेगः प्राह ।
अत्रैवायंखण्डे कुरुजाङ्गलदेशे हस्तिनागपुरेशो विचित्रः । तस्य तिस्रो देव्यः, अम्बा, अम्बाला, अम्बिका चेति । तासां क्रमेण पुत्रा धृतराष्ट्र पाण्डुविदुराः । सूर्यपुराधिपान्धकवृष्णिभ्राता नरवृष्णिः । तत्पुत्री गान्धारी जात्यन्धकधृतराष्ट्राय दत्ता । अन्धकवृष्णिना भणितम् । मम पुत्र्यौ कौन्तमाद्रचौ पाण्डवे दास्यामीति । तच्छ्र ुत्वा पाण्डुर्हृष्टः । पाण्डोः पाण्डुरोग पीडां श्रुत्वा राज्ञा
gst अन्यस्मै दास्यामीत्युक्तम् । तच्छ्र ुत्वा पाण्डुदुःखितः चिन्ताग्निना संतप्तगात्रः एकदोद्यानं गतः । तत्र लतागृहनिकटे मुद्रिका दृष्टा गृहीता च । तदवसरे व्याकुलीकृतान्तरङ्ग श्चिन्तागतिर्नामा विद्याधरः समायातः । इतस्ततोऽवलोकितवांश्च । पाण्डुना दृष्ट्वोक्तम् । किं भवदीयेयं मुद्रिका । दृष्ट्वा तेनोक्तम् । भवत्येव । दत्ता । तेन खगेनोक्तम्। त्वत्प्रसादाज्जीवितोऽहम्। त्वं किमिति कृशः । कथिते वृत्तान्ते वियच्चरेणोक्तम् । इयं काममुद्रिकाभीष्टं रूपं प्रयच्छति । एतन्माहात्म्यादभिलषितसुखानुभवनं कुरु । पश्चान्मया गृह्यते इति दत्ता तेन । पाण्डुस्तां गृहीत्वा सूर्यपुरीं गतः । कुन्त्या जलक्रीडावसरे तदुद्यानं प्रविष्टः । काममुद्रिकाप्रभावेण विशिष्टं रूपमात्मीयं तस्या दशितम् । तेन सा चासक्ता बभूव । स च स्त्रीरूपेण तद्गृहं प्रविष्टः । अष्टादशविनानि तया सह स्थित्वा स्वपुरं गतः । इतस्तस्या गर्भे जाते मातापितृभ्यां पृष्टा । तया सर्वं कथितम् । गूढगर्भेण पुत्रं प्रसूता । स च मञ्जूषायां निक्षिप्य स्ववंशावल्या सह यमुनायां प्रवाहितः । अङ्गवेशे चम्पापुरेसूर्येण तं दृष्ट्वा स्ववेव्या राधायाः समर्पितः । स च मञ्जूषायां कर्णौ धृत्वा स्थित इति कर्णनाम्ना वृद्धि गतः । इति निरूपिते हृष्टः पवनवेगः ।
ततोऽन्यस्मिन् दिने बौद्धवेषेण गत्वा दक्षिणपूर्वस्यां दिशि स्थितगोपुरे तत्क्रमेणोपविष्टौ । तथैव संभाषणे कृते विप्रैः को गुरुः, कि तपश्चरणकारणमिति पृष्टे, नावयोर्गुरुविद्यते । गुरु विना कथं तपः । कथयितुं नायाति । किमिति । क्षीरकथाकरण भयात् । सा कीदृक्षा ।
सागरदत्तो नाम वणिक् नालिकेरद्वीपं व्यवहारार्थं गतः । सह नीताया गोर्दधि तदधीशतोमराय दत्तम् । तेन चोक्तम् । किमर्थमिदम् । वणिजोक्तम् । भोजनार्थम् । भुक्ते तस्मिन् तोमरेणोक्तम् । कस्मादिदं रसायनमानीतं त्वया । वणिजोक्तम् । मम कुलदेवतया दीयते । सा मह्यं दातव्या । वणिजोक्तम् । न । पुनस्तोमरेणोक्तम् । यत्त्वया प्रार्थ्यते तन्मया दीयते इति । महताग्रहेण याचिता गौर्यावदिष्टं तावद् द्रव्यं गृहीत्वा दत्ता । तेन स्थापिता स्वगृहे । भोजनवेलायां तस्या भाण्डं प्रदश्यं याचितं रसायनम् । सा मौनेन स्थिता । एवं द्वितीयदिने तृतीयेऽपि याचिते अदाने सति तद्गुणमजानता संकुप्य निःसारिता । एवमेव तु यो यद्गुणं न जानाति स तेन किं करिष्यति । तदुक्तम् ।
गुणागुणज्ञेषु गुणीभवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । सुस्वादु तोयं भवतीह नद्याः समुद्रमासाद्य भवन्त्यपेयम् ॥
एवंविधः कोऽपि न विद्यते । कथय । अगुरुकथाकरणे बिभेमि । सा किलक्षणा । मगधदेशे राजगृहे राजा गजरथः । तत्रैकः कुटुम्बी हरिमेधहरः । तदपत्यं हलिः । मृते पितरि हलिना धावने Sभ्यासः कृतः । जिताभ्यासो भूत्वा सिंहद्वारे राजसेवां करोति । एकदा राजा बाह्यात्यर्थं गतः दुष्टाश्वेन वनं नीतः । स्थिते परिजने हलिः सहगतः । राज्ञा दृष्ट्वा पृष्टः । कस्त्वमिति । तेनोक्तम् ।
४७

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430