SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ धर्मं परीक्षाका ३६९ तदनु पवनवेगेन भणितम् । हे मित्र, यदि कर्णः कर्णेन निर्गतश्च न भवति, तर्हि तस्योत्पत ब्रूहि । मनोवेगः प्राह । अत्रैवायंखण्डे कुरुजाङ्गलदेशे हस्तिनागपुरेशो विचित्रः । तस्य तिस्रो देव्यः, अम्बा, अम्बाला, अम्बिका चेति । तासां क्रमेण पुत्रा धृतराष्ट्र पाण्डुविदुराः । सूर्यपुराधिपान्धकवृष्णिभ्राता नरवृष्णिः । तत्पुत्री गान्धारी जात्यन्धकधृतराष्ट्राय दत्ता । अन्धकवृष्णिना भणितम् । मम पुत्र्यौ कौन्तमाद्रचौ पाण्डवे दास्यामीति । तच्छ्र ुत्वा पाण्डुर्हृष्टः । पाण्डोः पाण्डुरोग पीडां श्रुत्वा राज्ञा gst अन्यस्मै दास्यामीत्युक्तम् । तच्छ्र ुत्वा पाण्डुदुःखितः चिन्ताग्निना संतप्तगात्रः एकदोद्यानं गतः । तत्र लतागृहनिकटे मुद्रिका दृष्टा गृहीता च । तदवसरे व्याकुलीकृतान्तरङ्ग श्चिन्तागतिर्नामा विद्याधरः समायातः । इतस्ततोऽवलोकितवांश्च । पाण्डुना दृष्ट्वोक्तम् । किं भवदीयेयं मुद्रिका । दृष्ट्वा तेनोक्तम् । भवत्येव । दत्ता । तेन खगेनोक्तम्। त्वत्प्रसादाज्जीवितोऽहम्। त्वं किमिति कृशः । कथिते वृत्तान्ते वियच्चरेणोक्तम् । इयं काममुद्रिकाभीष्टं रूपं प्रयच्छति । एतन्माहात्म्यादभिलषितसुखानुभवनं कुरु । पश्चान्मया गृह्यते इति दत्ता तेन । पाण्डुस्तां गृहीत्वा सूर्यपुरीं गतः । कुन्त्या जलक्रीडावसरे तदुद्यानं प्रविष्टः । काममुद्रिकाप्रभावेण विशिष्टं रूपमात्मीयं तस्या दशितम् । तेन सा चासक्ता बभूव । स च स्त्रीरूपेण तद्गृहं प्रविष्टः । अष्टादशविनानि तया सह स्थित्वा स्वपुरं गतः । इतस्तस्या गर्भे जाते मातापितृभ्यां पृष्टा । तया सर्वं कथितम् । गूढगर्भेण पुत्रं प्रसूता । स च मञ्जूषायां निक्षिप्य स्ववंशावल्या सह यमुनायां प्रवाहितः । अङ्गवेशे चम्पापुरेसूर्येण तं दृष्ट्वा स्ववेव्या राधायाः समर्पितः । स च मञ्जूषायां कर्णौ धृत्वा स्थित इति कर्णनाम्ना वृद्धि गतः । इति निरूपिते हृष्टः पवनवेगः । ततोऽन्यस्मिन् दिने बौद्धवेषेण गत्वा दक्षिणपूर्वस्यां दिशि स्थितगोपुरे तत्क्रमेणोपविष्टौ । तथैव संभाषणे कृते विप्रैः को गुरुः, कि तपश्चरणकारणमिति पृष्टे, नावयोर्गुरुविद्यते । गुरु विना कथं तपः । कथयितुं नायाति । किमिति । क्षीरकथाकरण भयात् । सा कीदृक्षा । सागरदत्तो नाम वणिक् नालिकेरद्वीपं व्यवहारार्थं गतः । सह नीताया गोर्दधि तदधीशतोमराय दत्तम् । तेन चोक्तम् । किमर्थमिदम् । वणिजोक्तम् । भोजनार्थम् । भुक्ते तस्मिन् तोमरेणोक्तम् । कस्मादिदं रसायनमानीतं त्वया । वणिजोक्तम् । मम कुलदेवतया दीयते । सा मह्यं दातव्या । वणिजोक्तम् । न । पुनस्तोमरेणोक्तम् । यत्त्वया प्रार्थ्यते तन्मया दीयते इति । महताग्रहेण याचिता गौर्यावदिष्टं तावद् द्रव्यं गृहीत्वा दत्ता । तेन स्थापिता स्वगृहे । भोजनवेलायां तस्या भाण्डं प्रदश्यं याचितं रसायनम् । सा मौनेन स्थिता । एवं द्वितीयदिने तृतीयेऽपि याचिते अदाने सति तद्गुणमजानता संकुप्य निःसारिता । एवमेव तु यो यद्गुणं न जानाति स तेन किं करिष्यति । तदुक्तम् । गुणागुणज्ञेषु गुणीभवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः । सुस्वादु तोयं भवतीह नद्याः समुद्रमासाद्य भवन्त्यपेयम् ॥ एवंविधः कोऽपि न विद्यते । कथय । अगुरुकथाकरणे बिभेमि । सा किलक्षणा । मगधदेशे राजगृहे राजा गजरथः । तत्रैकः कुटुम्बी हरिमेधहरः । तदपत्यं हलिः । मृते पितरि हलिना धावने Sभ्यासः कृतः । जिताभ्यासो भूत्वा सिंहद्वारे राजसेवां करोति । एकदा राजा बाह्यात्यर्थं गतः दुष्टाश्वेन वनं नीतः । स्थिते परिजने हलिः सहगतः । राज्ञा दृष्ट्वा पृष्टः । कस्त्वमिति । तेनोक्तम् । ४७
SR No.006233
Book TitleDharm Pariksha
Original Sutra AuthorAmitgati Acharya
Author
PublisherJain Sanskruti Samrakshak Sangh
Publication Year1978
Total Pages430
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy