________________
३६८
पाश्वकीतिविरचिता दृष्टवा विस्मितः । ज्ञानेन ज्ञात्वा यावत्ते पतिर्भवति तावद् गर्भः स्थिरो भवत्विति स्तम्भितः। ततः सप्तशतवर्षेषु गतेषु लंकायां रावण उत्पन्नो राज्ये स्थितः । एकदा पापधि गतः। मन्दोदरों दृष्टवासक्तो जातः । अनुयाचिता ऋषिणा दत्ता। तां परिणीय स्वपुरं गतः। तस्याः पुत्र इन्द्रजिज्ज एतद्भवति नो वा । भवत्येव ।
एवं तहि तस्या गर्भे सप्तशतवर्षाणि स्थातुमुचितम्। न ममेति को ऽयं नियमः। भवतु तत्र स्थितिः। कथं मुखनिर्गमनम् । कथं कर्णस्य कर्णनिर्गमनम् । भवतु मुखनिर्गमनम् । कथं तदैव भोजनयाचनम् । किं भवद्भिः स्वमतं न ज्ञातम् । त्वया ज्ञातं चेत् ब्रूहि । प्रोच्यते।
पाराशरो नाम प्रसिद्ध ऋषिः गङ्गायाः परतीरगममार्थ तारकमपश्यन् तत्पुत्रों योजनगन्धां दृष्ट्वा मामुत्तारयेत्युक्तवान् । तयोक्तम् । त्वं देवर्षिः। अहं निकृष्टा । उभयोः कथं सह यानम् । तयोक्तम् । तेनोक्तम् । न दोषः इति । नावं चटयित्वा याने नदीमध्ये आसक्तचित्तेनोक्तम् । मामिच्छ। नोचितम् । तेनोक्तम् । भणितं कुरु। तव शरीरे सौगन्ध्यं करोमीति । कृते तस्मिन पुनस्तयोक्तम् । जनाः पश्यन्ति । तेन नीहारः कृतः। पूनस्तयोक्तम् । नौर्न तिष्ठति । कथं सौख्यम। तेन द्वीपाः कृताः। एकस्मिन् द्वीपे तया सह क्रीडितवान् । एवंविधस्य कथमेतज्जातम् । संगात् । तथा चोक्तम् ।
ब्रह्मचर्यविशुद्धयर्थ त्यागः स्त्रीणां न केवलम् ।
त्याज्यः पुंसामपि प्रायो विटविद्यावलम्बिनाम् ॥इति । तपोग्निना दग्धकामेन्धनस्य कथमेतत्संभाव्यते । स्त्रीमुखावलोकनात् । तथा चोक्तम् ।
क्षीणस्तपोभिः क्षपितः प्रवासैविध्यापितश्चारु समाधितो यैः।
तथापि चित्रं ज्वलति स्मराग्निः कान्ताजनापाङ्गविलोकनेन ॥इति । क्रीडावसाने परतीरं गतः तदैव तस्या गर्भसंभूतौ सत्यां जटाजूटधरो लाकुटकोपीनसमन्वितो व्यास उत्पन्नः। तदैव तेनोक्तम् । मया कथं क्व तपः क्रियते। इति पृष्टे पाराशरेणोक्तम् । त्वयात्रैव तपः कर्तव्यमिति प्रतिपाद्य गतः। एतत् कि परमार्थभूतं नो वा। नेति केन भण्यते । तहि तदैव व्यासस्य तपःशिक्षा प्रष्टुमुचितम् । न मम भोजनयाचनमिति कथं प्रतिपाद्यते । भवतु तधाचनम् । त्वयि पुत्रे जाते तव माता कथं कुमारी। किं न ज्ञायते भवद्भिः । न ज्ञायते । यदि त्वया ज्ञायते हि कथय । कथ्यते ।
कौन्त्याः सूर्येण गर्भो जातः। तदनु कर्णः पुत्रो जातः। तथापि सा कन्या। तथापरापि कथा।
उद्दालको नामर्षिः। स चैकदा गङ्गायां कृतस्नानः अनुकौपीनं प्रक्षाल्य कमलकणिकायां निपीडितवान् । तत्कमल-मयोध्याधिपरशुपतिसुता चन्द्रमती तत्र स्नातुं गता। तया समीचीनं दृष्ट्वाध्रातम्। तदनु सा गृहमागता गर्भचिह्न जाते मातापितृभ्यां पृष्टा । पुत्रि, कस्यायं गर्भः। तयोक्तम् । मया न ज्ञायते। नवमासावसाने तृणबिन्दुनामानं पुत्रं प्रसूता। स च जारपुत्र इति जनर्भण्यते । सापि केनापि परिणीयते। एकदा भिक्षार्थमागतेनोद्दालकेन तृणबिन्दुं दृष्टवायं मम पुत्र इति ज्ञातम् । सा च राजसमीपे याचित्वा परिणीता। एतत् कि विद्यते नो वा। एवं तहि ताभ्यां पुत्रमातृभ्यां कन्यात्वं घटते। न मम मातुरिति कथं विचार्यते। इति हेतुनयदृष्टान्तैरनेकधा जित्वोद्यानं गतौ।