________________
धर्मपरीक्षाकथा
३६७
दत्तम् । भूपेन वनपालस्यास्य वृक्षं कृत्वा यदा पक्कफलमानयसि तदा तुष्टिीयते इति समर्पितम् । तेन उप्तम् । तद्वक्षे फलमायाते एकदा गृध्रे सपं गृहीत्वा खे गच्छति सति विषबिन्दुः फलस्योपरि पतितः । तदूष्मणा पक्कं फलं वनपालेनानीय राज्ञे समर्पितम् । तेन च युवराजाय दत्तम् । तद्भक्षणान्मृतः। राज्ञा कोपात् स वृक्षः सत्फलः छेदितः। अत्र सर्वे विचारका एव । प्रतिपादय । एवंविधो ऽस्ति । नास्ति कोऽपि । कथय ।
अयोध्यायां वणिक्धनदत्तस्य पुत्री देवदत्ता वसुदेवाय दत्ता। पाणिग्रहणार्थ वेदिकायाम् उभयोर्मध्ये ऽन्तःपटो धृतः। तदवसरे राजहस्तो बन्धनानि त्रोटयित्वा निर्गत: तद्भयान्नश्यतो वसुदत्तस्य पाणिर्देवदत्ताया लग्नः । तत्स्पर्शमात्रेण तस्याः गर्भः स्थितः। नवमे मासे बहवो भौतिका धनदत्तेन गृहमानीताः । देवदत्तया कस्मात् किमर्थमागता इति संभाषणे कृते दक्षिणापथादागताः, द्वादशवर्षदुभिक्षभयादिति कथितम्। मया गर्भस्थेन श्रुत्वा चिन्तितम् । बहिभिक्षकालः प्रवर्तते । अतो ऽत्रैव तिष्ठामोति स्थितोऽहम् । तत्र द्वादश वर्षेषु गतेषु पुनस्तैरागत्य दुभिक्षो गतः, स्वदेशं गम्यते इति प्रतिपादितम् । श्रुत्वाहं मम मातुर्मुखान्निर्गतः। तदा मन्माता चुल्लोसमीपे स्थितेति अहं तत्र पतितः। उत्थाय मया मन्मातुश्चोरं धृत्वा भोजने याचिते सा राक्षसो ऽयमिति भणित्वा पलायिता। सर्वविचार्य निर्धारितो ऽहं जटाधरो जातः । एकदायोध्यायां गत्वा मातृपित्रोविवाहं दृष्टवान् विहरन्नत्र समायातः। इति तपश्चरणकारणं भणितं श्रुत्वा तैरुक्तम् । अहो विस्मयकारि तपस्विनो वचनम् । तद्यथा-पुरुषबाहुस्पर्शनमात्रेण गर्भसंभूतिः। गर्भे स्थित्वा श्रवणम् । द्वादश वर्षाणि तत्र स्थितिः। मुखान्निर्गमनम् । उत्पन्नसमय एव भोजनं याचितम् । त्वयि पुत्रे तव मातुः कन्यात्वं च विरुद्धम् । न विरुद्धं भवन्मते ऽपि सद्भावात् । अस्मन्मते किमेवं विद्यते, किं न विद्यते । यद्यस्ति तहि कथय । कथ्यते
अयोध्यायां तृतीयारथ्याख्ये क्षत्रियपुत्र्यौ कृतचतुर्थस्नाने एकस्मिन् शयनतले सुप्ते । परस्परस्पर्शनेन एकस्या गर्भे भगोरथ उत्पन्नः इति । तया सौरीपुरेशान्धकवृष्णिः । तस्य भ्रातुनरवृष्णेः पुत्री गान्धारी । हस्तिनागपुरेशव्यासपुत्रजात्यन्धकधृतराष्ट्राय दास्यामीति पित्रा प्रतिपन्नम् । तया एकदा चतुर्थस्नानं कृत्वा धृतराष्ट्रो ऽयमिति पनसवृक्ष आलिङ्गितः। ततो गर्भसंभूतौ नवमासावसाने पनसफलं निर्गतम् । तत्र दुर्योधनादि पुत्रशतं स्थितमिति विद्यते नो वा। भवतु । कथं गर्भस्य श्रवणमिति । किं भवन्मते प्रसिद्धं न विद्यते। किमेवं विद्यते । कथ्यते ।
द्वारवत्यां विष्णोर्भगिनी सुभद्रा पाण्डुपुत्रायार्जनाय दत्ता। गर्भसंभूतौ प्रसूत्यर्थ स्वभ्रातुगुहमागता । तस्या रात्री नारायणः कथां कथयति । चक्रव्यूहकथने क्रियमाणे निद्रिता सा। प्रतिध्वन्यभावे तूष्णीं स्थिते वासुदेवे गर्भस्थेन भणिते वासुदेवेन ध्यातम् । अहो कश्चिदसुरो भविष्यति । तत उत्पन्नो ऽभिमन्युः। कि सत्यमसत्यं वा । नासत्यम् । तहि तस्य श्रवणमचितं न ममेति को ऽयं पक्षपातः। भवतु श्रवणं, कथं द्वादशवर्षाणि गर्भस्थितिः। किं युष्मन्मते नास्ति । नास्ति । यद्यस्ति तहि कथय । कथ्यते । एकस्मिन्नरण्ये मयस्तपः करोति । एकस्यां रात्रौ इन्द्रियक्षरणे जाते सरसि कौपीनं प्रक्षाल्य कमल-कणिकायां निश्च्योतितम् । तत्र स्थितमिन्द्रियरजः मण्डूक्या गिलितम् । तदनु गर्भो जातः। प्रसूता पुत्री। अहो मज्जातौ कि मानुषी देवी वेयं जाता। तत्कणिकायाम् उपवेश्य सर्वा अवलोकयन्त्यः स्थिताः। मयेन संध्यावन्दनार्थमागतेन दष्टवा मत्पुत्रीयमिति ज्ञात्वा स्वावासं नीता। मन्दोदरीसंज्ञापोषिता वृद्धि गता। एकस्मिन् दिने सा तत्र कौपीनं गृहीत्वा स्नातुं गता। तत्र लग्नमिन्द्रियमार्दीभूय तत्प्रजनेन प्रविष्टम् । तदनु गर्भः स्थितः। ऋषिरुदरवृद्धि