________________
पावकीर्तिविरचिता
न निर्गतः इति कमलासनो ऽभूदिति विद्यते नो वा। तैरुक्तम्-सत्यं, विद्यते। तहि तद्भवतामसत्यमिति न प्रतिभासते, इदं तु तथा भासते इति कथं शोभते। इति निरुत्तरं जित्वा मनोवेगेनोक्तम्-तथापरापि कथा भवन्मते विद्यते।
कुरुजाङ्गलदेशे हस्तिनागपुरेशयुधिष्ठिरेण यज्ञं कारयितुं प्रारब्धम् । कथम् । 'अश्वमेधे हयं हन्यात पौण्डरीके च दन्तिनम्।' इति वेदोक्तक्रमण । तथापि पुण्यं न लभते। पटेन केनचिन्नैमित्तिकेनोक्तम्-असुराः फलं गृह्णन्ति, कथं निवार्यन्ते । तेनोक्तम्-ऋषिनाथः अगस्तिः पाताले तिष्ठति । स धरणेन्द्रेण सहानीय यज्ञमण्डपे उपवेशितश्चेन्त हरन्ति । कथमानीयते इति सचिन्तो राजा अर्जुनेन भणितः । मया आनीयते, प्रेषणं प्रयच्छ । इति दत्ते तस्मिन् अर्जुनो बाणेन भूमि विद्ध्वा तच्छुषिरेण पातालं प्रविश्य धरणेन्द्रेण युद्धं कृत्वा तं बद्ध्वा विमुच्य तत्पुत्रों नागदत्तां परिणीय अर्जनः ऋषिनार्थ धरणेन्द्रेण दशकोटिबलेन सहानीतवान । इति अस्ति नो वा । नास्तीति केन भण्यते। तस्य सूक्ष्मच्छिद्रेण प्रवेष्टुमुचितं, नावयोरिति कथं युक्तम् । तैरुक्तम्--भवतु प्रवेशः। कथं तत्रावगाहः। तेनोक्तम्- अङ्गष्ठपर्वमात्रोत्सेधधारिणागस्त्येन समुद्रः शोषितः । तदुदरे मकराकरस्यावगाहो भवति। नास्माकं कुण्डकाभ्यन्तर इति केषां वाचोयुक्तिरिति । स तथा जित्वोद्यानं गतवान् । मनोवेगो भणति स्म मित्राय। यदा ब्रह्मणा लोको विहितः क स्थित्वा विहितः। विष्णना गिलिते तस्मिन क्व भिक्षां याचितवान । कातसीक्षेत्र स्थितम इति विचारासहत्वादेतद्विरुद्धम् । पवनवेगेन भणितम्-तहि लोकः कथमुत्पन्नः। स आह-“काल: सर्वज्ञनाथश्च जोवलोकस्तथागमः। अनादि-निधना द्यते द्रव्यरूपेण संस्थिताः" इति लोको ऽनाद्यनिधनः। जोवादि-पदार्थाधिकरणभूतः समन्तादनन्तानन्ताकाशबहमध्यप्रदेशस्थिततनुवातघनानिलघनोदधिनामभितिर्वेष्टितः । अधःसमचतुरस्रसप्तरज्जुविस्तृतः चतुर्दशरज्जूत्सेधवान् पूर्वापरदिग्विभागयोएनिविस्तारवान् । कथम् । पूर्वापरदिग्भागयोः समः । तन्मध्ये समचतुरस्रेकरज्जविस्तारेण चतुर्दशरज्जूत्सेधवती त्रसनाडिः । तन्मध्ये महामेरुः। तस्याधःस्थिता नरकाः सप्त । ते च के। रत्नप्रभा १ शर्कराप्रभा २ बालुकाप्रभा ३ पङ्कप्रभा ४ धूम्रप्रभा ५ तमःप्रभा ६ महातमःप्रभा ७ श्चेति। मेरुपरिवताः शुभनामानो द्वीपसमुद्राः। ते च के। जम्बूद्वीपः लवणसमुद्रः। धातकीखण्डद्वोपः कालोदकसमुद्रः। पुष्करद्वीपः पुष्करसमुद्रः। वारुणीद्वीपः वारुणीसमुद्रः। क्षोरद्वीपसमुद्रः। क्षौद्रद्वीपसमुद्रः। इत्यादि असंख्यात द्वीपसमद्राः। द्विगुणद्विगुणविस्ताराः मेरोरुपरि स्वर्गाः। ते च सौधर्म १ ईशान २ सनत्कुमार ३ माहेन्द्र ४ ब्रह्म ५ ब्रह्मोत्तर ६ लोकान्त ७ काम्पिष्ट ८ शुक्र ९ महाशुक्र १० शतार ११ सहस्रार .१२ आनत १३ प्राणत १४ आरुण १५ अच्युता १६ श्चेति षोडश स्वर्गाः । तेषामुपरि नव प्रैवेयकाः । तेषामपरि नवानदिशाः। तेषामपरि विजय १ वैजयन्त २ जयन्त ३ अपराजित ४ सर्वार्थसिद्धि ५ श्चेति पञ्चानुत्तराः। तेषामपरि सिद्धक्षेत्रम। इति लोकस्वरूपं विस्तरतः करणानुयोगाद ज्ञातव्यम् । इति वचनामृतसहस्रेण मित्राय लोकस्थिति प्रतिपाद्य ततोऽन्येद्यः भौतिको भूत्वा दक्षिणगोपूरे तत्क्रमेणोपवेशने संभाषणे च जाते द्विजैः को गुरुः, कि कारणं तपसः इति पृष्टं तेनोक्तम्--नावयोर्गुरुर स्ति। गुरु विना कि तपो ऽस्ति, कथ्यताम् । बिभेमि । मा भैषोः । पित्तज्वरगृहोतस्य कथा किं न विधीयते। कथम् । पित्तज्वरगृहीतस्य मधुरं नावभासते तथा युष्माकं सत्यमप्यस्मद्वचः इति । कथ्यते, यथोक्तं विचायंते । कथय । आम्रस्य कथा न कि विधीयते ? कोदशी सा। निगद्यते तेन । तथा हि।
अङ्गदेशे चम्पापुरे नृपशेखराय केनचिद्वणिजा पलितवलिस्तम्भकारि आम्रस्य बीजं