Book Title: Dharm Pariksha
Author(s): Amitgati Acharya,
Publisher: Jain Sanskruti Samrakshak Sangh
View full book text
________________
३७०
पाश्वंकीतिविरचिता तव भृत्यो ऽहम् । तदनु शुश्रूषां कुर्वन् स्थितः। अश्वमार्गेणागते परिजने राजा विभूत्या पुरं प्रविष्टः। तदनु हलियोग्यम् उक्तं राज्ञा। रे पञ्चशतनामान् गृहाण । तेनोक्तम् । मातरं पृष्ट्वा गृह्यते। तदनु पृष्टया मात्रा गदितम् । हे पुत्र, त्वमहं चोभौ। एवं गृहीतेषु ग्रामेषु चिन्तां कः करिष्यति। यदि राजा तुष्टस्तहि सुभूमिक्षेत्रमेकं गृहाण। एवं करोमीति राजसमीपं गत्वा याचिते क्षेत्रे राज्ञोक्तम्। हे अकृतपुण्य, ग्रामान् गृहाण । तेनोक्तम् परिचिन्ताकारकाभावात् न गृह्यन्ते । सति द्रव्ये सर्व भविष्यति । गृहाण । न। सर्वैर्भणितम् । पुण्यहीनस्य संतुष्टो राजा कि करोति । तथा चोक्तम् ।
न हि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन ।
करतलगतमपि नश्यति यस्य च भवितव्यता नास्ति ॥ इति । तथापि राज्ञा करुणया तस्या अगुरुचन्दनं दत्तम् । तेन चिन्तितम् । अहो, यो राजा सूक्षेत्र दातुमसमर्थः स किं पञ्चशतग्रामान दास्यति इति । तेन तद्वनं सवं छेदयित्वा संशोष्य प्रज्वालितम् । कियत्सु दिनेषु राज्ञा तद्वनं किं कृतमिति पृष्टः । तेनोक्तम् । छेदयित्वा दग्धमिति । पुनरुक्तं राज्ञा । तत्र किचिदवतं विद्यते नो वा। तेनाभाणि । अर्धदग्धानि काष्ठानि सन्तीति। राज्ञोक्तम् । एकमानय । आनीतम् । इदानीं त्वापणे विक्रीणीथाः। तथा कृते बहु द्रव्यं दृष्ट्वा कृतः पश्चात्ताप इति । न तथा को ऽपि । मा भैषीः। कथय ।
विकर्मपुरे वणिक्पुत्रावावाम् । आवयोः पिता बौद्धभक्तः। आवां बौद्धनिकटे पठावः । एकस्मिन् दिने अकालवृष्टिर्जाता। गुरोः संस्तरस्योपरि उदकस्रवणे जाते तच्छोषणार्थ समीपस्थपर्वतस्योपरि गतौ। शोषणसमये द्वाभ्यां सृगालाभ्यां पर्वतमुत्सार्यान्यत्र द्वादशयोजने नीत्वा स्थापितः सः। गतयोस्तयोरावां तदुपकरणानि गृहीत्वा बौद्धवेषेण भ्रमन्तावत्रागतौ इति तपोनुष्ठानकारणं भणितम् । अहो वैचित्र्यं रक्ताम्बरवचसः कथम् । अल्पसत्त्वाभ्यां कि पर्वतमुत्सार्य द्वादशयोजनेषु निक्षिप्यते। किं भवत्पुराणे प्रसिद्धमिदं न भवति । यदि भवति, कथय । कथ्यते।
___ रामायणे सीताहरणे जाते शुद्धौ च सत्यां लङ्कागमनोपायः क इति सचिन्तो रामः। मर्कटैर्भणितः । मा चिन्तां कुरु । सर्वमस्माभिः क्रियत इति । पर्वतानुत्सार्यानीय तैः सेतुर्बद्ध इति । उक्तं च।
एते ते मम बाहवः सुरपतेर्दोर्दण्डकण्डूपहाः सोऽयं सर्वजगत्पराभवकरो लडूश्वरो रावणः। सेतं बद्धमिमं शृणोमि कपिभिः पश्यामि लड्रा वृतां
जीवद्भिस्तु न दृश्यते किमथवा किं वा न वा श्रूयते ॥ इति सत्यं विद्यते नो वा । न विद्यते इति केन भण्यते । यद्येवं तहि वानराणां भूधरोद्धरणमुचितं न शृगालयोरिति कथं श्लाघ्यम् । इति बहुधा जित्वोद्यानं गतौ । पवनवेगेन पृष्टो मनोवेगः। कथं रामलक्ष्मीधरयोर्लङ्कागमनमिति । स आह । हे मित्र, अस्मिन् भरते उपिण्यवसर्पिण्यौ समे प्रवर्तेते । तयोः प्रत्येकं षटकालाः प्रवर्तन्ते । तत्रेयमवसर्पिणी । अस्यां षट्कालाः सन्ति । ते च के। सुषमः, सुषमसुषमः सुषमदुष्षमः, दुष्षमसुषमः, दुःष्षमः, अतिदुष्षमश्चेति । तत्र चतुर्थकाले त्रिषष्टिशलाकापुरुषाः स्युः। ते च के । चतुर्विशतितीर्थकराः । किनामानः । वृषभः, अजितः, संभवः,

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430