Book Title: Dharm Pariksha
Author(s): Amitgati Acharya, 
Publisher: Jain Sanskruti Samrakshak Sangh

View full book text
Previous | Next

Page 392
________________ धर्मपरीक्षाकथा ३६१ निजवचनालापेन स्ववशीकत्वा क्रीडितवान । तयोरपत्यं शक्तिर्जातः । सो ऽपि तथा तपः कत लग्नः। वृद्धत्वे तथा च भ्रमितु लग्नः । गौतमग्रामे श्वपाकों दृष्ट्वा तदासक्तचित्तेन हस्तेन धृता। तयोक्तम्-किमिति । तेनोक्तम्-मामिच्छ । पुनस्तयोक्तम्-अनामिकाहम् । पुनस्तेनोक्तम्तथापि न दोषः । वेदे प्रतिपादितत्वात् । कथम् । अजाश्वा मुखतो मेध्या गावो मेध्याश्च पृष्ठतः । ब्राह्मणाः पादतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः॥ अपरं च। कामं पुण्यवशाज्जाता कामिनी पुण्यप्रेरिता। सेव्या सेव्या न संकल्पा स्त्रीरत्नं दुष्कुलादपि ॥ इत्यादिवचनेन स्वाधीना कृता। तयोरपत्यं पाराशरो जातः। स च वन्ध्यगिरौ तपः कतु लग्नः। अन्यदा गङ्गातरणसमये मत्स्यगन्धां सेवितवान् । तयोरपत्यं व्यासो ऽभूत् । तेन मत्स्यगन्धिनीभ्रातुः पुत्र्यः अम्बा अम्बाला अम्बिकाः परिणीताः। तासां पुत्रा धृतराष्ट्रपाण्डुविदुरा बभूवुः। इति पुष्करब्रह्माण्डज-पुराणानि । एवम् अच्छभल्लों पुनः स्वपुत्रों यो गृह्णाति स किं छायां त्यजति । पुनरभाणि तापसपल्या-एवं तहि विष्णोनिकटं ध्रियते। तेनोक्तम्-प्रिये, नोचितम् । किमिति । स तवृत्तान्तमाह । द्वारवत्यां षोडशसहस्रगोपिकाभिः सह विष्णुः सुखेन तिष्ठति। विष्णुनेकदाटव्यां भ्रमता राजिकां नाम गोपिकां दृष्ट्वा तेन वचनेन स्वतन्त्रा कृता। उभयोः संयोगो ऽजनि । संकेतादात्री तस्या गृहं गत्वामुल्या कपाटं ताडितवान् । तयोक्तम् अङ्गल्या कः कपाट प्रहरति कुटिलो माधवः किं वसन्तो नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः। नाहं घोराहिमर्दो किमु स खगपति! हरिः किं कपीन्द्रः इत्येवं गोपवध्वां प्रतिवचनजडः पातु वश्चक्रपाणिः॥ एवंविधो ऽपि यो गृह्णाति गोपिकां स किं छायां त्यजति । पुनस्तयोक्तम्-तहि चन्द्रस्य समीपे ध्रियते । तेनोक्तम्-न तत्र । को दोषः । स आह । सोऽप्येकदा विश्वामित्रतापसभायां दृष्ट्वा विशिष्टमात्मीयं रूपं प्रवर्य स्वासक्तां कृत्वा क्रीडासमये भर्तारं बहिरागतं ज्ञात्वा मध्ये कः इत्युक्ते मार्जार इत्युक्ते स मार्जारवेषेण निर्गतः । तपस्विना दृष्ट्वानेनान्यायः कृतः इति मत्वा स मृगचर्ममयाधारणाहतः कलाड़ि-तो ऽभूत। रोहिणीप्रभृतिदेवाङ्गनानामपि स्वामी तापसी गृह्णाति । स किं छायां त्यजति । पुनरवादि तया। तीन्द्रसमीपं ध्रियते। प्रिये, न। किं कारणम् । तेनैकदा वने परिभ्रमता गौतमर्षिभार्या महिल्यां दृष्टवा सातिशयरूपेण तत्समीपं गत्वा अनुकूलिता च । तया कोडन् मुनिना दृष्टः भणितश्च । निःकृष्टो ऽसि योन्यर्थी । तव सर्वाङ्गे योनयो भवन्तु इति शप्तः । ततः सहस्रभगो ऽभूत् । तान् दृष्ट वा लज्जितः शचीपतिः। तदनु पादयोः पतितः क्षन्तव्यमिति। तदनु करुणया तेन सहस्रलोचनः कृतः। एवं सुरीसमन्वितोऽपि यः सेवते तापसी स कि छायां त्यजति । पुनरभाणि तया-तर्हि मार्तण्डसमीपं ध्रियते। स उवाच

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430