________________
धर्मपरीक्षाकथा
३६१ निजवचनालापेन स्ववशीकत्वा क्रीडितवान । तयोरपत्यं शक्तिर्जातः । सो ऽपि तथा तपः कत लग्नः। वृद्धत्वे तथा च भ्रमितु लग्नः । गौतमग्रामे श्वपाकों दृष्ट्वा तदासक्तचित्तेन हस्तेन धृता। तयोक्तम्-किमिति । तेनोक्तम्-मामिच्छ । पुनस्तयोक्तम्-अनामिकाहम् । पुनस्तेनोक्तम्तथापि न दोषः । वेदे प्रतिपादितत्वात् । कथम् ।
अजाश्वा मुखतो मेध्या गावो मेध्याश्च पृष्ठतः ।
ब्राह्मणाः पादतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः॥ अपरं च।
कामं पुण्यवशाज्जाता कामिनी पुण्यप्रेरिता।
सेव्या सेव्या न संकल्पा स्त्रीरत्नं दुष्कुलादपि ॥ इत्यादिवचनेन स्वाधीना कृता। तयोरपत्यं पाराशरो जातः। स च वन्ध्यगिरौ तपः कतु लग्नः। अन्यदा गङ्गातरणसमये मत्स्यगन्धां सेवितवान् । तयोरपत्यं व्यासो ऽभूत् । तेन मत्स्यगन्धिनीभ्रातुः पुत्र्यः अम्बा अम्बाला अम्बिकाः परिणीताः। तासां पुत्रा धृतराष्ट्रपाण्डुविदुरा बभूवुः। इति पुष्करब्रह्माण्डज-पुराणानि । एवम् अच्छभल्लों पुनः स्वपुत्रों यो गृह्णाति स किं छायां त्यजति । पुनरभाणि तापसपल्या-एवं तहि विष्णोनिकटं ध्रियते। तेनोक्तम्-प्रिये, नोचितम् । किमिति । स तवृत्तान्तमाह ।
द्वारवत्यां षोडशसहस्रगोपिकाभिः सह विष्णुः सुखेन तिष्ठति। विष्णुनेकदाटव्यां भ्रमता राजिकां नाम गोपिकां दृष्ट्वा तेन वचनेन स्वतन्त्रा कृता। उभयोः संयोगो ऽजनि । संकेतादात्री तस्या गृहं गत्वामुल्या कपाटं ताडितवान् । तयोक्तम्
अङ्गल्या कः कपाट प्रहरति कुटिलो माधवः किं वसन्तो नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः। नाहं घोराहिमर्दो किमु स खगपति! हरिः किं कपीन्द्रः
इत्येवं गोपवध्वां प्रतिवचनजडः पातु वश्चक्रपाणिः॥ एवंविधो ऽपि यो गृह्णाति गोपिकां स किं छायां त्यजति । पुनस्तयोक्तम्-तहि चन्द्रस्य समीपे ध्रियते । तेनोक्तम्-न तत्र । को दोषः । स आह ।
सोऽप्येकदा विश्वामित्रतापसभायां दृष्ट्वा विशिष्टमात्मीयं रूपं प्रवर्य स्वासक्तां कृत्वा क्रीडासमये भर्तारं बहिरागतं ज्ञात्वा मध्ये कः इत्युक्ते मार्जार इत्युक्ते स मार्जारवेषेण निर्गतः । तपस्विना दृष्ट्वानेनान्यायः कृतः इति मत्वा स मृगचर्ममयाधारणाहतः कलाड़ि-तो ऽभूत। रोहिणीप्रभृतिदेवाङ्गनानामपि स्वामी तापसी गृह्णाति । स किं छायां त्यजति । पुनरवादि तया। तीन्द्रसमीपं ध्रियते। प्रिये, न। किं कारणम् ।
तेनैकदा वने परिभ्रमता गौतमर्षिभार्या महिल्यां दृष्टवा सातिशयरूपेण तत्समीपं गत्वा अनुकूलिता च । तया कोडन् मुनिना दृष्टः भणितश्च । निःकृष्टो ऽसि योन्यर्थी । तव सर्वाङ्गे योनयो भवन्तु इति शप्तः । ततः सहस्रभगो ऽभूत् । तान् दृष्ट वा लज्जितः शचीपतिः। तदनु पादयोः पतितः क्षन्तव्यमिति। तदनु करुणया तेन सहस्रलोचनः कृतः। एवं सुरीसमन्वितोऽपि यः सेवते तापसी स कि छायां त्यजति । पुनरभाणि तया-तर्हि मार्तण्डसमीपं ध्रियते। स उवाच