________________
पाश्वकीर्तिविरचिता
नैकदा सौरीपुराधीशान्धकवृष्णेः पुत्रों कुन्तीं स्नान्तीं दृष्ट्वा सेविता । यो ऽदत्तां कुन्तीं गृह्णाति स किं दत्तां छायां त्यजति । पुनरभाणि - एवं चेद्यमसमीपं ध्रियते । तेनोक्तम्-एवमस्तु । स नैष्ठिकः ब्रह्मचारीति । यमपुरीं गत्वा तत्समीपे तां धृत्वा तीर्थयात्रां गतौ मातापितरौ । इतः छाया सयौवना जाता । तद्रूपं दृष्ट्वा यमो ऽस्य सूत्रस्यार्थं सत्यं कृतवान् ।
३६२
संसर्गाद् दुर्बलां जीर्णां भ्रश्यन्तीमप्यनिच्छतीम् । कुष्ट रोगिणीं काणां विरूपां क्षीणविग्रहाम् ॥ निन्दितां निन्द्यजातीयां स्वजातीयां तपस्विनीम् । बालामपि तिरची स्त्री कामी भोक्तुं प्रवर्तते ॥ इति ।
तदनु तेनासक्तचित्तेन सा स्वभार्या कृता । स ब्रह्मचारीति प्रसिद्धः । जनापवादभयेन तां दिवा गिलित्वा रात्रौ उद्गील्य तथा सह भोगान् सेवते । स दिनं प्रति गङ्गां स्नानार्थं गच्छति । तत्र तां लतागृहे निधाय स्नातुं प्रविष्टः । अत्रान्तरे सा पवनेन अग्निना च दृष्टा । तदनु पवनो ऽग्निना भणितः । यथास्या मम च मेलापको भवति तथा कुरु । तेनोक्तम् - किमेवं शक्यते । यमः प्रचण्डः । अग्निबंभाण-दृष्टे सति प्रचण्डो ऽन्यथा किम् ? पवनेन तथा तयोः संयोगो Sकारि । रत्यवसाने तयोक्तम् — हे अग्ने, यमस्य निर्गमनवेला बभूव । गच्छ स्वस्थानम् । तेनोक्तम् - त्वां विहाय गन्तुं न शक्नोमि । तया स गिलितः । तदनु यमेन निर्गत्य सा गिलिता । सा उदरमध्ये उद्गील्य तेन सह क्रीडां करोति । ततो ऽह्यग्न्यभावे द्विजानां होमादिकं नष्टम् । तदभावे त्रैलोक्यस्य संतापो ऽभूत् । देवः ध्यानेनावलोकिते सति कारणं ज्ञातं संतापस्य । तदनु पवनः पृष्टः । तेनाभाणि । मयाग्निशुद्धिर्नावगम्यते । तथापि सर्वे आमन्त्रिताः । सर्वे ऽपि तद्गृहं गताः । तेन चोपवेशिताः । पादप्रक्षालनादिके कृते सर्वेभ्य एकैकम् आसनं दत्तम् । यमायासनत्रयम् । तेन कारणे पृष्टे पवनेनोक्तम् - छायामुद्गिल । तत उद्गिलिता । तस्या अप्युक्तम् - अनलमुद्गिलेति । तथा सो ऽप्युद्गिलितः । ततस्तस्याः कूर्चश्मश्रुकेशा उपप्लुष्टाः ।
तत्प्रभृति वनितास्तद्रहिता बभूवुः । अग्नि दृष्ट्वा गदां गृहीत्वा तं मारयितुमुत्थितो यमः । सभयान्नश्यन् सन् सर्वगतो ऽभूत् । एवं सवं विद्यते न वा । तैरुक्तम् - सत्यं विद्यते । यमेनाग्निर्न ज्ञातः । किं तस्य सर्ववेदित्वं नष्टम् । द्विजैरुक्तम् - न । तर्ह्यस्यापि गुणा मा नश्यन्त्विति जिते भवतु मार्जारस्तथाविधः, गृहीतो ऽस्माभिः । इदं धनुरिमे गदे विक्रीयन्ते नो वा । किरातेनोक्तम्विक्रयन्ते । धनुषः किं मूल्यं तथा गदायाश्चेत्युक्तम् । किरातेनोक्तम् प्रत्येकं सुवर्णद्वादशसहस्रमिति । किमेतेषां सामर्थ्यम् । कथ्यते मया । अनेन धनुषा इमे बाणा विसर्जिताः सन्त शतयोजनानि गत्वा शत्रु निर्मूलयन्ति । इमे गदे महापर्वतान् चूर्णयत इति । द्विजैर्भण्यते - एवं सामर्थ्यपेताः पदार्थाः कस्य विकाराः । किरातेन भव्यते-मया मार्गे गच्छता अरण्ये स्वयमेव मृतो महामूषिको दृष्टः । तयोरस्थ्नामिमे विकारा इति । केनचिद् द्विजेन भणितम्-त्वदीयं वस्त्रं गतं येन कौपीनं परिधायागतो ऽसि । तेनोद्यते - अहं कोटीभटो ऽमीषां विक्रयणार्थमागच्छन् मार्गे चौरमुषितः । इति श्रवणादनु सर्वैरुपहसितम् - एवंविधाः पदार्थाः स्वनिकटे सन्ति स्वयं कोटी भटस्तथापि मुषितः इति । स बभाण - किमिति हसनं विधीयते । तैरभाणि - मूषिकरस्थनामायुधानि कि भवन्ति । कोटीभटः कि चौरेर्मुष्यते । स बभाण - किमिदमेव कौतुकम् । भवत्पुराणे किमेवंविधं कौतुकं नास्ति । किमेवमस्ति । यद्यस्ति तहि ब्रूहि । एवमस्तु । प्रोच्यते । शृणुत ।