Book Title: Dharm Pariksha
Author(s): Amitgati Acharya,
Publisher: Jain Sanskruti Samrakshak Sangh
View full book text
________________
'धर्मपरीक्षाकथा
तदनु गौरी रुष्टा । गाहा ।
ता गउरी तोसविया पाए पडिऊण परमदेवेण ।
सो तुम्हें देउ सिवं परमप्पो विग्धविलयेण ॥ तदनु गौर्या चिन्त्यते
सन्ध्या रागवती स्वभावचपला गङ्गा द्विजिह्वः फणी चन्द्रो लाञ्छनवक्त्र एव मलिनो जात्यैव मूर्यो वृषः । कष्टं दुर्जनसंकटे पतिगृहे वस्तव्यमेतत्कथं
देवी व्यस्तकपोलपाणितलका चिन्तान्विता पातु वः॥ तदनु शंकरेण गङ्गा मस्तके अर्धाङ्गे गौरी धृता । ततो ऽतीव संतुष्टा। तदुक्तम्
अलिनीलालकमुग्रभासुरजट लोलाक्षमुग्रेक्षणं तिलकाधं नयनार्धमुन्नतकुचं रम्योरवक्षःस्थलम् । वट्वाङ्गं फणिकर्ण सुवसनं व्याघ्राजिनं लीलया
शान्तं भीषणमर्धनारिघटितं रूपं शिवं पातु वः॥ इति अदत्तां स्वीकुरुते यो गंगा दत्ता छायां त्यजतीति । पुनस्तयोक्तम्-तहि ब्रह्मणः पार्वे स्थाप्यते। तेनोक्तम्-नोचितम् । किमिति । किं त्वया पुष्करब्रह्माण्डजपुराणानि न श्रुतानि । तहि निरूप्यते मया।
महेश्वरस्य गौर्या विवाहकाले ब्रह्मा पुरोहितो ऽभूत् । अग्निकुण्डप्रदक्षिणीकरणकाले गौर्याः जयाप्रदेशं दृष्ट्वा ब्रह्मणः शुक्रक्षरणे जाते कियत् कलशमध्ये पतितम् । तत्र द्रोणाचार्योऽभूत् । वृषभपादगर्तस्थितोदके कियत् पतितम् । तत्र वालखिल्यादयः सप्तकोटिऋषयो जाताः। तदनु लज्जया गच्छतः कियद् वल्मीकस्योपरि पतितम् । तत्र वाल्मीकिनामा ऋषिरुत्पन्नः। तदन्वये गच्छतः भस्मनि कियत्पतितम् । तत्र भूरिश्रवा जातः। ततोऽग्रे गच्छतोऽस्थिन कियत्पतितम । तत्र शल्यो जातः। तदन्वने गच्छतः कियत् स्थले पतितम् । तत्रोर्वशी जाता। तदन्वने लिङ्गं वामकरेण धृत्वा गच्छत उपरि धारा उच्छलिताः। तत्र शक्तिना कियगिलितः [तम्]। तत्र शक्तिनामा क्षत्रियो जातः। ततो गच्छन्ने कस्मिन् प्रदेशे लिङ्गं धृत्वा तथापि शुक्रं तिष्ठति नो चेति कम्पितवान् । तत्र कियत् पतितम् । तत्र पद्मा नाम कन्या जाता। सुरूपां तां दृष्ट्वा गृहीत्वा स्वावासं गतः । कालेन सयौवनामभिवीक्ष्यासक्तः सन् भणति । हे पुत्रि मामिच्छ। तयोक्तम्-त्वं पिता। किमेवमुचितम् । तयोक्तम् -किं त्वया वेदो न श्रुतः। न । तहि शृणु। मातरमुपैति स्वसारमुपैति पुत्रार्थी, न च कामार्थो । तथापरमपि-नापुत्रस्य लोको ऽस्ति तत्सवं पशवो विदुः । तस्मात् पुत्रार्थ मातरं स्वसारं वाधिरोहति । संतानवृद्धयर्थ त्वयाम्युपगन्तव्यम् । इत्यादिवचनालापेन स्ववशीकृता। तदनु तव चित्ते मम चित्तं संदधामि, तव हृदये मम हृदयं संदधामि, तवास्थिषु ममास्थोनि संदधामि, तव प्राणे मम प्राणमिति स्वाहा। त्र्यम्बक मन्त्रः । इमं मन्त्रमुच्चार्य सेवितुं लग्नः यावद्दिव्यषण्मासान् तदनु सर्वैर्देवैख़त्वा भणितम्-निकृष्टो ब्रह्मा पुत्रों कामयते। अत्र पर्यालोच्य तैर्गन्धर्वदेवाः प्रेषिताः ब्रह्मणः संयोगं विनाशाय ते इति [ विनाशयतेति ] । तैरागत्य सुरतगृहनिकटे चिन्तितम् । कथम् । यदि सहसास्यान्तरायो विधीयते तदा कुपितः सन् अनर्थ करिष्यति । इति पर्यालोच्य तैर्गोतम् । कथम् ।

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430